SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।।११३५।। Join Educatora Inter १००००० उज्जुस्याईणं पुण जेण सयं संपयं व वत्युं ति । पत्तेयं पत्तेयं तेण नमोक्कारमिच्छति ॥ २८६९ ॥ द्वे अपि सुगमे । नवरं व्यवहारनयः पुनरेकं नमस्कारवन्तं जीवमेकं नमस्कार मिच्छति, बहुंस्तद्वतो बहून् नमस्कारानिच्छति, लोकव्यवहारपरत्वात्, लोके चेत्थं दर्शनादिति । ऋजुमूत्रादयस्तु बहुत्वं नेच्छन्ति, वर्तमानसमयवर्तिनः स्वकीयस्यैवैकस्य प्रत्येकं प्रत्येकमभ्युपगमादिति ॥ व्याख्यातं 'किम्' इति प्ररूपणाद्वारम् || २८६८ || २८६९ ।। अथ 'कस्य' इति द्वारे 'वपडिवण्णओ य जीवाणं' इत्यादिव्याचिख्यासया प्राह पैडिवज्जमाणओ पुण एगोऽणेगे व संगहं मोतुं । इट्ठो सेसनयाणं पडिवन्ना नियमओगे || २८७० ॥ प्रतिपद्यमानको नमस्कारस्यैकोऽनेके वा जीवा भवन्तीत्ययं पक्षः संग्रहनयं मुक्त्वा शेषनयानामिष्टः संमतः, पूर्वप्रतिपन्नास्तु नियमेनानेके तेषामिष्टाः, गतिचतुष्टयेऽपि पूर्वप्रतिपन्नस्य सम्यग्दृष्टीनामसंख्येयानां सदैव लाभात् । संग्रहनयस्तु बहुत्वं सर्वत्र नेच्छतीति तद्वर्जनमिति । तदेवं 'कस्य नमस्कारः ?' इति पृष्ठे एकानेकजीवस्वामिको नमस्कार इति निर्णीतम् ।। २८७० ।। अथ जीवस्वामिके सत्यपि 'किं नमस्कार्यजीवस्वामिको नमस्कारः, नमस्कर्तृजीवस्वामिको वा ? इति जिज्ञासायां नये निर्णयमाह- कैस्स त्ति नमक्कारो पुज्जरस य संपयाणभावाओ । नेगम-ववहारमयं जह भिक्खा कस्स जइणोति ॥ २८७१ ॥ कस्य नमस्कारः - किंस्वामिकोऽसौ ? इति पृष्टे गुरुराह - नैगम-व्यवहारनयमतमिदम् - पूज्यस्य नमस्कार्यस्य नमस्कारः, न पुनस्तत्कर्तुः । कुतः ? । तेन पूज्यस्यैव संप्रदीयमानत्वात् । लोकेऽपि वक्तारो भवन्ति - कस्य भिक्षा ?, 'यतेः' इति, न पुनस्तद्दातुः ।। २८७१ ॥ हेत्वन्तरेणापि नमस्कार्यस्वामिकत्वं नमस्कारस्यैतौ समर्थयतः । कथम् १ इत्याह १ ऋजुतादीनां पुनर्येन स्वकं सांप्रतं वा वस्त्विति । प्रत्येकं प्रत्येकं तेन नमस्कार मिच्छन्ति ॥ २८६९ ॥ ३ प्रतिपद्यमानकः पुनरेकोऽनेके वा संग्रहं मोक्तुम् । इष्टः शेषनयानां प्रतिपन्ना नियमतोऽनेके ॥ २८७० ॥ ४ कस्येति नमस्कारः पूज्यस्य च संप्रदानभावात् । नैगम-व्यवहारमतं यथा भिक्षा कस्य यतिन इति ॥ २८७१ ॥ For Personal and Private Use Only २ गाथा २८६२ । बृहद्वत्तिः । ।।।११३५ ॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy