________________
विशेश
||११३२॥
तेह वि विसुद्धी पाएण बज्झसहियस्स जा न सा इहरा । संजायइ तेणोभयमिढे संबस्स वा नमओ ॥२८६०॥
सुगमाः, गतार्थाश्च । नवरं भावापेतं भावरहितं तद् बाह्यकरणं विफलमेव ।। इति विंशतिगाथार्थः ॥२८५८॥२८५९॥२८६०॥
अथ प्ररूपणाद्वारमाह- दुविहा परूवणा छप्पया य नवहा य छप्पयाइ णमो । किं कस्स केण व कहिं केवचिरं कइविहो व भवे?॥२८६१॥
द्विविधा द्विपकारा प्रकृष्टा प्रधाना प्रगता वा रूपणा वर्णना प्ररूपणेति । तदेव द्वैविध्यमाह- पट्पदा च षनकारा, नवधा च नवप्रकारा । चशब्दात् पञ्चपदा, चतुष्पदा च । तत्र षट्पदा- 'णमो' इति पदं किम् , कस्य, केन वा, क वा, कियचिरं, कतिविधो वा भवेद् नमस्कारः ।। इति नियुक्तिगाथासंक्षेपार्थः ।। २८६१ ॥ तत्र द्विारव्याख्यानार्थमाह - किं जीवो तप्परिणओ पुवपडिवण्णओ य जीवाणं । जीवस्स य जीवाण य पडुच्च पडिपज्जमाणं तु॥२८६२॥
किं वस्तु नमस्कारः ? इत्याह- 'जीवो त्ति' सामान्येनाविशुद्धनगमादिनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः।। शब्दादिशुद्धनयमतं त्वधिकृत्याह- 'तप्परिणउत्ति' शब्दादिविशुद्धनयमतेन तु जीवस्तत्परिणतो नमस्कारपरिणामपरिणत एवं नमस्कारो नापरिणत इति । उक्तं किंद्वारम् । अथ 'कस्य' इति द्वारमुच्यते । तत्र च यदा पूर्वप्रतिपन्नो नमस्कारश्चिन्त्यते, तदा जीवानामसौ विज्ञेयः, बहुजीवस्वामिक इत्यर्थः । प्रतिपद्यमानं तु नमस्कारं प्रतीत्य यदैको जीवस्तं प्रतिपद्यते तदा जीवस्यासौ विज्ञेयः, एकजीवस्वामिक इत्यर्थः, यदा तु बहवो जीवास्तं प्रतिपद्यन्ते तदा जीवानामेष ज्ञातव्यः, बहुजविस्वामिक इत्यर्थः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। २८६२ ॥
अथ किंद्वारविषयं भाष्यम्
१ तथापि विशुद्धिः प्रायेण बाह्यसहितस्य या न सेतरथा। संजायते तेनोभयमिष्टं शम्बस्येव नमतः ॥ २८६० ॥ २ द्विविधा प्ररूपणा षट्पदा च नवधा च षटपदादिनमः । किं कस्य केन वा क कियरिचरं कतिविधो वा भवेत् ? ॥ २८६१ ।। ३ किं जीवस्तत्परिणतः पूर्वप्रतिपन्नकश्च जीवानाम् । जीवरूप व जीवानां च प्रतीत्य प्रतिपद्यमानं तु ॥ २८६२ ॥
॥११३२॥
For Personal and Price Use Only