SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ विशेषा 1११०७॥ विरमणं विरतं, न विरतिरविरतिः, विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिः । संदृतासंदृताः स्थगितास्थगिताः। परित्यक्तापरित्यक्ताः सावधयोगा यस्मिन् सामायिके तत् संवृतासंदृतम् । एवमुभयव्यवहारानुगतत्वाद् बाल-पण्डितम् । देशः प्राणा- बृहद्वा तिपातादिः,एकदेशस्तु वृक्षच्छेदनादिस्तयोर्विरमणं विरतिर्यस्यां निवृत्तौ सा देशैकदेशविरतिः । बृहत्साधुधर्मापेक्षयाऽणुरल्पो धर्मोऽणुधर्मो देशविरतिलक्षणः । न गच्छन्तीत्यगा वृक्षास्तैः कृतमगारं गृहम् , तद्योगादगारो गृहस्थस्तद्धर्मश्चेति ॥ २७८६ ॥ सर्वविरतिसामायिकनिरुक्तिमुपदर्शयबाह सामाइयं समइयं सम्मावाओ समास संखेवो । अणवज्जं च परिन्ना पच्चक्खाणं च ते अट्ठा ॥ २७८७ ॥ समो राग-द्वेषरहितत्वाद् मध्यस्थः, अयनमयो गमनमित्यर्थः समस्यायः समायःस एव सामायिकमेकान्तप्रशमगमनमित्यर्थः। सामयिकमिति-'सम्' इति सम्यक्शब्दार्थ उपसर्गः, सम्यगयः समयः, सम्यग् दयापूर्वकं जीवेषु विषये गमनं प्रवर्तनमित्यर्थः, समयोऽस्यास्तीति सामयिकम् । 'सम्मावाउ त्ति' सम्यक्शब्दनेह राग-द्वेषविरह उच्यते, तेन तत्प्रधानो चादो वदनं सम्यग्वादो रागादिविरहेण यथावद् वदनमित्यर्थः । 'समास त्ति' संशब्दः प्रशंसायाम् , असु क्षेपणे, शोभनमसनं संसाराद् बहिर्जीवस्य जीवात् कर्मणो वा क्षेपणं समासः, अथवा, संशब्दः सम्यगर्थः, सम्यगासः समासः । रागद्वेषरहितस्य समस्य वा आसः समासः । 'संखेवो त्ति' संक्षेपणं संक्षेपः सामायिकमुच्यते, महार्थस्यापि स्तोकाक्षरत्वादस्येति । 'अणवजं ति' अवद्यं पापं नास्मिन्नवद्यमस्तीत्यनवयं सामायिकम् । 'परिपण ति' परितः समन्ताज्ज्ञानं पापपरित्यागेन परिज्ञा सामायिकम् । 'पञ्चक्खाणं ति' प्रति हरणीयं वस्तु आख्यानं गुरुसाक्षिकं निवृत्तिकथनं प्रत्याख्यानम् । एतेऽष्टौ सामायिकपर्यायाः ॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ २७८७ ॥ अथ 'सम्मदिट्ठी अमोहो' इत्यादिगाथां भाष्यकारो व्याचष्टे तेच्चा सम्म दिहि त्ति दसणं तेण सम्मदिहि त्ति । मोहो वितथग्गाहो तदन्नहा दसणममोहो॥२७८८॥ मिच्छत्तमलावगमो सोही सम्भावया जिणाभिहियं । दसणमिह तग्गाहो बोही तच्चत्थसंबोहो ॥२७८९॥ , सामायिक सामयिकं सम्यग्वादः समासः संक्षेपः । अनवद्य च परिज्ञा प्रत्याख्यानं च तेऽष्ट ।। २७८७ ॥ २ सध्या सम्यग् दृष्टिरिति दर्शनं तेन सम्यग्दृष्टिरिति । मोहो वितथग्राहस्तदन्यथा दर्शनममोहः ॥ २७८८ ॥ मिथ्यात्वमलापगमः शुद्धिः सजावता जिनाभिहितम् । दर्शनमिह तग्राहो बोधिस्तध्यार्थसंबोधः ॥ २७८९ ॥ KAT११०७॥ Jan Educationa.Intem For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy