________________
तत्र संव्यवहारराशिगतैः सर्वैरपि जीवैः सामान्यनाक्षरात्मकं श्रुतं स्पृष्टम् , द्वीन्द्रियादिभावस्य सर्वैरपि तैः स्पृष्टत्वात् , तत्र च सामान्यविशेषा. 8 श्रुतसद्भावात् । संव्यवहारराशिगतविशेषणं चेह पूर्वटीकाकारैः कृतम्, इति नामाकं स्वमनीषिका संभावनीयेति । सम्यक्त्व चारित्रे
तु सर्वैरपि सिद्धैः पूर्व स्पृष्टे, तत्स्पर्शनामन्तरेण सिद्धत्वायोगात् । देशविरतिस्तु सर्वसिद्धानां बुद्धिपरिकल्पितरसंख्यातै गैः पूर्व ॥११०६॥
स्पृष्टा, एकेन तु तदसंख्येयभागेनासौ प्राग् न स्पृष्टा, यथा मेरुदेवीखामिन्या । इह च सम्यक्त्वादयो जीवपर्यायत्वाद् भावाः, ततस्तेषां 5 स्पर्शनाभावः स्पर्शनोच्यते ॥ इति नियुक्तिगाथाद्वयार्थः ॥२७८३ ॥
. अथ निरुक्तिद्वारमुच्यते । चतुर्विधस्य सामायिकस्य क्रिया-कारकभेद-पर्यायैः शब्दार्थकथनं निर्वचनं निरुक्तिः। तत्र सम्यक्त्वसामायिकनिरुक्तिमभिधित्सुराह
सम्मविट्ठी अमोहो सोही सब्भावदसणं बोही । अविवजओ सुदिट्ठी एवमाई निरुत्ताई ॥ २७८४ ॥
'सम्यम्' इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यगविपरीता दृष्टिः सम्यग्दृष्टिः 'अर्थानाम्' इति गम्यते । मोहनं मोहो वितथग्राहः, न मोहोऽमोहोऽवितथग्राहः । शोधनं शुद्धिर्मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिरुच्यते । सत्-जिनाभिहितं प्रवचनं, तस्य भावः सद्भावः, तस्य दर्शनमुपलम्भः, सद्भावदर्शनम् । बोधनं बोधिरित्यौणादिक इन् परमार्थबोधः । अतस्मिस्तदथ्यवसायो विपर्ययो न विपर्ययोऽविपर्ययस्तत्वाध्यवसाय इत्यर्थः । सुशब्दः प्रशंसायाम् , शोभना दृष्टिः सुदृष्टिः। इत्येवमादीनि सम्यग्दर्शनस्य निरुक्तानीति ॥ २७८४ ॥
श्रुतसामायिकनिरुक्तिप्रदर्शनायाह
अक्खर सन्नी सम्मं साइयं खलु सपज्जवसियं च । गमियं अंगपविट्ठ सत्त वि एए सप्पडिवक्खा ॥२७८५॥ इयं च पीठे व्याख्यातत्वाद् न विवियते ॥ २७८५ ॥ देशविरातिसामायिकनिरुक्तिमाह-- विरयाविरई संवुडमसंवुडे बालपंडिए चेव । देसिक्कदेसविरई अणुधम्मोऽगारधम्मो य ॥ २७८६ ।।
, सम्यग्दृष्टिरमोहः शुद्धिः सद्भावदर्शनं बोधिः । अविपर्ययः सुरष्टिरेवमादीनि निरुक्तानि ॥ २७८४ ॥ २ गाथा ४५४ । ३ विरताविरतिः संवृतासंवृतं बालपण्डितं चैव । देशैकदेशविरतिरणुधर्मोऽगारधर्मश्च ॥ २००६ ॥
॥११०६॥
Aas
For Personal
d
e