SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ वृहदत्तिः । | भवति, श्रुते तु सामान्यनाक्षरात्मकेऽनन्तेषु भवेष्वनन्ता आकर्षा भवन्ति ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २७८१ ॥ विशेषा स्पर्शनाद्वारमाह सम्मत्त-चरणसहिया सव्वं लोगं फुसे निरवसेस । सत्त य चोइसभागा पंच य सुय-देसविरईए ॥२७८२॥ ॥११०५॥ सम्यक्त्व-चरणसहिताः सम्यक्त्व-चरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकं स्पृशन्ति । किं बहिर्व्याप्त्या ? नेत्याह-निरवशेष प्रतिप्रदेशव्याप्याऽसंख्पेयप्रदेशात्मकमपीत्यर्थः। एते च केवलिसमुद्धातावस्थायां केवलिनो द्रष्टव्याः। 'जघन्यतस्त्वसंख्येयभागं स्पृशन्ति' fol इति स्वयमेव द्रष्टव्यम् । 'सत्त य चोदसभागा पंच य सुय-देसविरइए त्ति' श्रुत-देशविरत्योरिति यथासंख्येन संवध्यते, तद्यथा-श्रुते श्रुतस्य सप्त चतुर्दशभागाः स्पर्शनीयाः, चशब्दात् पञ्च च; देशविरतो देशविरतस्य पञ्च चतुर्दशभागाः स्पर्शनीयाः, चशब्दाद् यादयश्चेति । इयमत्र भावना- कश्चित् तपोधनः श्रुतज्ञानी अनुत्तरसुरोष्विलिकागत्या समुत्पद्यमानो लोकस्य सप्त चर्तुदशभागान् स्पृशति, एका रज्जुलॊकस्य चतुर्दशभाग उच्यते, ततश्च सप्त रज्जू सृशतीत्युक्तं भवति । एवमुत्तरत्रापि भावार्थो विज्ञेपः। चशब्दात् कोऽपि सम्यग्दृष्टिः श्रुतज्ञानी पूर्व नरके बदायुष्कः पश्चाद् विराधिता त्यक्तसम्यक्त्वः षष्ठपृथिव्यामिलिकागत्या समुत्पद्यमानो लोकस्य पश्च चतुर्दशभागान् स्पृशति । देशविरतस्त्वच्युतसुरेष्विलिकागत्या समुत्पद्यमानो लोकस्य पञ्च चतुर्दशभागान् स्पृशति, चशब्दात् शेषसुरालयेष्विलिकागत्या समुत्पद्यमानो लोकस्य यादींश्चतुर्दशभागान् स्पृशति । आह-नन्वन्यत्र 'छलच्चुए' इति पठ्यते, तत् कथमिहाच्युते समुत्पद्यमानः पञ्चैव रज्जूः स्पृशतीति निगद्यते ? । सत्यम् , किन्त्वच्युत-वेयकापान्तरालमपेक्ष्यान्यत्र षड् रजवः पश्यन्ते, इह त्वच्युतदेवलोकमपेक्ष्य पश्चेति वृद्धसंप्रदायः। अधस्तु घण्टालालान्यायेनापि तं परिणाममपरित्यज्य देशविरता न गच्छन्ति । अत ऊर्ध्वलोक एव तत्स्पर्शना दर्शिता नाधस्तादिति ॥ तदेवं क्षेत्रमधिकृत्य स्पर्शना मोक्ता ।। २७८२ ॥ अथ भावमधिकृत्य तामुपदर्शयन्नाह-- सव्वजीवहिं सुयं सम्म-चरित्ताई सव्वसिद्धेहिं । भागेहिं असंखिज्जेहि फासिया देसविरई उ ॥ २७८३ ॥ इह जीवा द्विविधाः- संसारस्थाः, सिद्धाश्च । संसारस्था अपि द्विविधाः- संव्यवहारराशिगताः, असंव्यवहारराशिगताश्च । १ सम्यवस्व-चरणसहिताः सर्व लोकं स्पृशेद् निरवशेषम् । सप्त च चतुर्दशभागान् पञ्च च श्रुत-देशविरत्योः ॥ २७४२ ॥ २ षडच्युते । ३ सपंजीवः श्रुतं सम्यक्त्व चारित्रे सर्वसिद्ध । भागैरसंख्यः स्पृष्टा देशवितिस्तु ।। २७८३ ॥ ॥११०५॥ BISASH For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy