________________
विशेषा०
॥११०२॥
Jain Educatora Intern
इह सम्यक्त्वादिप्रतिपतितानां यज्जघन्यपदं तस्मात् स्वस्थाने यदुत्कृष्टपदं तत् सर्वत्र समधिकं विशेषाधिकमवगन्तव्यम् । एवं पूर्वप्रतिपन्नानामपि जघन्यपदादुत्कृष्टपदं विशेषाधिकमेव । प्रतिपद्यमानानां तर्हि का वार्ता : इत्याह, 'पवज्जईत्यादि ' प्रतिपद्यते सम्यक्त्वादिगुणं जघन्यत एको द्वौ वा उत्कृष्टतस्त्वाद्य सामायिकत्रयमसंख्याताः, चारित्रं तूत्कृष्टतः संख्याताः प्रतिपद्यन्ते । अत इह जघन्यपदादुत्कृष्ट पदम संख्येयगुणं संख्ययेगुणं वा द्रष्टव्यम् ।। इति गाथाऽष्टकार्थः ॥ २७७४ ॥
अय सान्तरद्वारमाह-
कालमणतंच सुए अद्धापरियट्टओ य देसूणो । आसायणबहुलाणं उक्कोसं अन्तरं होइ ॥ २७७५ ॥
इह जीव एकदा सम्यक्त्वादिसामायिकमवाप्य ततस्तत्परित्यागे यावता कालेन पुनरपि तदवाप्नोति सोऽपान्तरकालोऽन्तरमुच्यते । तच्च सामान्येऽक्षरात्मके श्रुते जघन्यतोऽन्तर्मुहूर्तम्, उत्कृष्टतस्त्वनन्तं कालं भवति । इदमुक्तं भवति — इह द्वीन्द्रियादिः कश्चित् श्रुतं लब्ध्वा मृतो यः पृथिव्यादिषूत्पद्य तत्रान्तर्मुहूर्त स्थित्वा पुनरपि द्वीन्द्रियादिष्वागतः श्रुतं लभते तस्य जघन्यतोऽन्तर्मुहूर्तमन्तरं भवति । यस्तु द्वीन्द्रियादिर्मृतः पृथिव्यप्तेजो वायु-वनस्पतिषु पुनः पुनरुत्पद्यमानोऽनन्तं कालमवतिष्ठते, ततः पुनरपि द्वीन्द्रियादिष्वागत्य श्रुतं लभते, तस्यायमेकेन्द्रियावस्थितिकाललक्षणोऽनन्तकाल उत्कृष्टतोऽन्तरं भवति । अयं चासंख्यातपुद्गलपरावर्तमानो द्रष्टव्यः । शेषस्य तु सम्यक्त्व देश विरति सर्वविरतिसामायिकत्रयस्येति दृश्यम् - जघन्यतोऽन्तर्मुहूर्तम्, उत्कृष्टतस्तु देशोन उपापुद्गल परावर्तोऽन्तरं भवति । इदं चोत्कृष्टमन्तरमाशातनाबहुलानां जीवानां द्रष्टव्यम्; उक्तं च-
'' तित्थयर पत्रयण सुयं आयरियं गणहर महिड्ढीयं । आसायंतो बहुसो अणतसंसारिओ होइ || १ ||" इति निर्युक्तिगाथार्थः ॥ २७७५ ॥
भाष्यम् -
मिच्छयस्स वणरसइकालो सेसस्स सेससामण्णी । हीर्ण भिण्णमुहुत्तं सब्वेसिमिहेगजीवस्स ॥ २७७६ ॥
१ कालमनन्तं च श्रुतेऽर्धपरावर्तकश्च देशोनः । आशातनबहुलानामुत्कृष्टमन्तरं भवति ।। २७७५ ।।
२ तीर्थंकर प्रवचनं श्रुतमाचार्य गणधरं महर्दिकम् । आशातयन् बहुशोऽनन्तसंसारको भवति ॥ १ ॥ ३ मिथ्या श्रुतस्य वनस्पतिकालः शेषस्य शेषसामान्यः । हीनं भिन्नमुहूर्तं सर्वेषामि हैकजीवस्य || २७७६ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥११०शा
www.jainelibrary.org