________________
__ इह योऽयं वनस्पतिकालो वनस्पतरुपलक्षणत्वादेकेन्द्रियकालोऽसंख्यातपुद्गलपरावर्तात्मकः श्रुतस्योत्कृष्टोऽन्तरं प्रोक्तः, स विशेषा०मिथ्याश्रुतस्य मिथ्याश्रुतमङ्गीकृत्य द्रष्टव्यः । 'सेसस्स सेससामण्णो त्ति' शेषस्य तु सम्यक्श्रुतस्य शेषः सम्यक्त्वादिसामायिकैः
सामान्यस्तुल्यो देशोनोपार्धपुद्गलपरावर्तलक्षण उत्कृष्टोऽन्तरकालो द्रष्टव्यः । 'हीणं ति' हीनं जघन्यमन्तरं सर्वेषामपि सम्यक्त्वादिसामायिकानां नियुक्तिगाथायामनुक्तत्वाद् भिन्नमुहूर्तमन्तर्मुहूर्त द्रष्टव्यम् । इदं च जघन्यमुत्कृष्टं चान्तरमेकजीवस्य मन्तव्यम् , नानाजीवानां सम्यक्त्वाद्यन्तराभावादिति गाथार्थः ॥ २७७६ ॥
सांप्रतमविरहितद्वारमाह--
सम्म-सुयागारीणं आवलियअसंखभागमेत्ताओ। अट्ट समया चरित्ते सव्वेसिं जहण्ण दो समया ॥२७७७॥
सम्यक्त्व-श्रुता-गारिणां सम्यक्त्व-श्रुत-देशविरतिसामायिकानामित्यर्थः, एकैकस्मिन् दयादिषु वा प्रतिपत्तषु प्रतिपद्यमानेवावलिकासंख्येयभागमात्राः समया अविरहितं नैरन्तर्येण प्रतिपत्तिर्भवति । इदमुक्तं भवति- सम्यक्त्व-श्रुत-देशविरतीनां सर्वस्मिन्नपि लोक उत्कृष्टत आवलिकाऽसंख्येयभागवर्तिनः समयानविरहितं नैरन्तर्येणैकैको यादयो वा प्रतिपत्तारः प्राप्यन्ते, ततः परं तत्पतिपत्तरवश्यमुपरमाद् विरहकालो भवति। चारित्रे त्वष्टौ समयान् यावदेक-यादीनां निरन्तरं प्रतिपत्तिः, सर्वत्र ततः परं विरहकालः । जघन्यतस्तु सर्वेष्वपि सामायिकेषु द्वौ समयौ प्रतिपत्तिः । ततः परं विरहकाल इति ॥ २७७७ ॥
अविरहितकालस्य प्रतिपक्षभूतत्वाद् विरहकालो द्वारगाथायामनुपदिष्टोऽपि लभ्यते, अतः सम्यक्त्वादिप्रतिपत्तिविरहकालमाह
सुय-सम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पण्णरसगं विरहियकालो अहोरत्ता ॥२७७८॥
इह सम्यक्त्व-श्रुतयोः सर्वस्मिन्नपि लोक उत्कृष्टतः सप्ताहोरात्राणि प्रतिपत्तिविरहकालो भवति, एतावन्तं कालमनयोरुत्कृष्टतो लोके कोऽपि प्रतिपत्ता न लभ्यत इत्यर्थः, ततः परं कश्चिदवश्यं ते प्रतिपद्यते, एवमुत्तरत्रापि । विरताविरतेस्तु देशविरतेद्वादशाहोरात्राण्युत्कृष्टतः सर्वत्र विरहकालो भवति, विरतेस्तु चारित्रस्य पञ्चदशाऽहोरात्राण्युत्कृष्टतः प्रतिपत्तिविरहकालो भवति ॥ १ ज, 'कालः प्रतिपत्तव्यः' । २ सम्यक्त्व-श्रुता-गारिणामावलिकासंख्यभागमात्राः । अष्ट समयाश्चारित्रे सर्वेगो जघन्यतो द्वौ समयौ ॥ २७७७ ॥
२ श्रुत-सम्यक्स्वयोः सप्तकं खलु विरताविरतेर्भवति द्वादशकम् । विरतः पञ्चदशकं विरहितकालोऽहोरात्राणाम् ॥ २७७८ ॥
P
॥११०३॥
Sease
For Personal and
Use Only