SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ का एवमेतासु सर्वास्वप्यवस्थासु नैगमः प्रस्थकव्यपदेशं मन्यत इति प्रस्थकौपम्यमिति । सीमापर्यन्तो ग्रामः, प्रजासमध्यासितगृहा-ऽऽराम वापी-देवकुलादिरूपो वा, केवला प्रजा वा, प्रधानपुरुषो वा ग्राम इत्यादीन् सर्वानपि प्रकारान् मन्यतेऽसाविति ग्रामौपम्यम् । एवम॥८९७॥ न्येष्वपि घटाद्यर्थेष्वविशुद्ध-मध्यम-विशुद्धाभ्युपगमभेदेनोदाहरणानि द्रष्टव्यानीति ।। २१८८ ॥ सामान्य विशेषांश्चायमभ्युपगच्छति, अतः कथंभूतस्तानिच्छति ? इत्याहसामन्नमन्नदेव हि हेऊ सामन्नबुद्धि-वयणाणं । तस्स विसेसो अन्नो विसेसमइ-बयणहेउ त्ति ॥ २१८९॥ सामान्य विशेषेभ्योऽन्यदेव, हेतुश्च तत् 'सत्' इति सामान्यबुद्धेः सामान्यवचनस्य च । तस्मादपि सामान्यादन्यो भिन्न एवं नित्यद्रव्यवर्ती अन्त्यो विशेषः। स च हेतुः 'विशेषः' 'विशेषः' इति मतेर्वचनस्य च । प्रयोगः- भिन्नौ परस्परं सामान्य विशेषौ, भिन्नकार्यत्वात् , घट-पटादिवदिति ॥ २१८९॥ . न केवलं सामान्य-विशेषौ नैगमः परस्परं भिन्नौ मन्यते, किन्तु स्वाश्रयादपि गो-परमाण्वादेस्तयोर्भेदमेवायमिच्छतीति दर्शयन्नाह-- ___ सदिति भणिएऽभिमन्नइ दव्वादत्थंतरं ति सामन्नं । अविसेसओ मईए सव्वत्थाणुप्पवित्तीए ॥ २१९० ॥ ___'सत्' इति यतो 'द्रव्य-गुण-कर्मसु सा सत्ता' इति वचनात् सत्तासमवायादेव परस्परविलक्षणेषु द्रव्य-गुण-कर्मसु 'सत्' | इत्येकाकारा बुद्धिः प्रवर्तते, अतः 'सत्' इति भणिते द्रव्यादिभ्योऽर्थान्तरमेव सामान्यं मन्यते नैगमः । कुतः ? इत्याह- 'सत्' इत्यविशेषितमतेर्वचनस्य च सर्वत्र द्रव्य-गुण-कर्मवन्योन्यमतिविलक्षणेष्वप्यविशेषेण प्रवृत्तः । इदमुक्तं भवति- यदि सत्तासामान्यं द्रव्या दिभ्योऽभिन्नं स्यात् तदा द्रव्यादिवत् तस्यापि भिन्नत्वात् ततः सर्वत्र 'सत्' इत्यभिन्ना बुद्धिर्न स्यात् । न हि भिन्नादभिन्नबुद्धिपसवो FOR युज्यते, घट-स्तम्भादिभ्योऽपि तत्मसङ्गात् । तस्माद् भिन्नेष्वभिन्नबुद्ध्यन्यथानुपपत्तेद्रव्यादिभ्योऽर्थान्तरमेव सामान्यमिति ।। २१९०॥ __गोत्वादिसामान्यं तर्हि कथंभूतम् ? इत्याहगोत्तादओ गवाइसु निययाधाराणुवित्तिबुद्धीओ । परओ य निवित्तीओ सामन्नविसेसनामाणो ॥ २१९१ ॥ . सामान्पमन्यदेव हि हेतुः सामान्यबुद्धि-वचनयोः । तस्माद् विशेषोऽम्यो विशेषमति-वचनहेतुरिति ॥ २१८९॥ २ सदिति भणितेऽभिमन्यते द्रव्यांचर्थान्तरमिति सामान्यम् । अविशेषतो मतेः सर्वत्रानुप्रवृत्तेः ।। २१९०॥ । गौरवादयो गवादिषु निजकाधारानुवृत्तिवुद्धः । परतश्च निवृत्तेः सामान्यविशेषनामानः ॥ २१९ ॥ ॥८९७॥ Personal and Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy