SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥८९६॥ DERATEACariECTCHCECLACESSटा वृत्तयोऽन्त्यस्वरूपा व्यावृपयाकारबुद्धिहेतवः, तेषां सामान्यो-भय-विशेषाणां ग्राहकाणि ज्ञानानि सामान्यो-भय-विशेषज्ञानानि, तैर्यस्माद् मिनोति मिमीते वा, ततो नैगमः, अत एव नैकमानो नैकपरिच्छेदः किन्तु विचित्रपरिच्छेद इति ॥ २१८६ ।। नैगमनयस्यैव व्युत्पत्त्यन्तरमाह 'लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा जं नेगगमोऽणेगपहो णेगमो तेणं ॥२१८७॥ 'वा' इत्यथवा निगमा भण्यन्ते । के। लोकार्थनिबोधा:- अर्था जीवादयस्तेषु नितरामनेकपकारा बोधा निबोधा लोकस्यार्थनिबोधा लोकार्थनिबोधाः । तेष्वेवंविधेषु निगमेषु भवः कुशलो वाऽयमिति नैगमः। अथवा, अन्यथा व्युत्पत्तिः-गम्यतेऽनेनेति गमः पन्था नैके गमाः पन्थानो यस्यासौ नैकगमः, वक्ष्यमाणनीत्या बहुविधाभ्युपगमपरत्वाद् नैकमार्गः, निरुक्तविधिना च ककारंलोपाद् नैगम इति ॥२१८७॥ कथंभूतः पुनरयम् , कथं चाऽनुगन्तव्यः ? इत्याहसो कमविसुद्धभेओ लोगपसिद्धिवसओऽणुगंतव्वो । विहिणा निलयण-पत्थय-गामोवम्माइसंसिद्धो ॥२१८८॥ स नैगमनयः क्रमेण परिपाच्या विशुद्धा विशेषवन्तो भेदाः प्रकारा यस्य स क्रमविशुद्धभेदः, तथाहि- आधभेदोऽत्य निर्विकल्पमहासत्ताख्यकेवलसामान्यवादित्वात् सर्वाविशुद्धः, गोत्वादिसामान्यविशेषवादी तु द्वितीयभेदो विशुद्धाविशुद्धः, विशेषवादी तु तृतीयभेदः सर्वविशुद्धः। एवं प्रस्थकाद्युदाहरणेष्वपि क्रमविशुद्धिर्भाचनीया । स चैवंभूतो नैगमनयो लोकप्रसिद्धिवशतः समयोक्तो | यो विधिस्तेनानुगन्तव्यो ज्ञातव्यः । निलयन-प्रस्थक-ग्रामौपम्यादिना संसिद्धः साधितः। तत्र निलयनौपम्यं यथा- 'क वसति भवान् ?' इति पृष्टे कश्चिदाह- 'लोकेऽहं वसामि, तथा, तिर्यग्लोके, मनुष्यक्षेत्रे, जम्बूदीपे, भरतक्षेत्रे, मध्यमखण्डे, पाटलीपुत्रे, वसतौ, संस्तारके, आकाशप्रदेशेषु, यावदाह- 'स्वात्मनि वसामि' इत्येवमेतान् सर्वानपि प्रकारान् नैगमो मन्यत इति निलयनौ| पम्यम् । प्रस्थका काष्ठघटितो धान्यमानविशेषः । तत्र तयोग्य काष्ठमटव्यां छिन्दानस्तक्षा 'किं करोषि' इति पृष्टः सन् पाह- 'प्रस्थक छिनमि। मार्गे चागच्छन् पृष्टः- 'किमिदं स्कन्धे त्वयाऽऽरोपितम् ?' अत आह- 'प्रस्थकः' । एवमाकुट्टयन् , घटयन् , उत्किरन् , श्लक्ष्णीकुर्वन् , नाम च तत्राकुट्टयन् , यावद् धान्यमाने च तं व्यापारयन् 'किमिदम् ?' इति पृष्टः सन्नाह- 'प्रस्थकोऽयम्' इति । , लोकार्थनिबोधा वा निगमास्तेषु कुशलो भवो वाऽयम् । अथवा यद् नैकगमोऽनेकपयो नैगमस्तेन ॥ २१८७॥ २ स क्रमविशुद्धभेदो लोकप्रसिद्धिवशतोऽनुगन्तव्यः । विधिना निलयन-प्रस्थक-प्रामौपम्यादिसंसिद्धः ॥ २१८८ ॥ MOREOGRBहरमनदारासस ८९६॥ For Personal and Use Only FOTww.janeibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy