________________
विशेषा
॥८९५||
दस सालaarak
सर्वेऽपि शब्दपर्यायाः । ये त्वभिलपितुं न शक्यन्ते श्रुतज्ञानविषयत्वातिक्रान्ताः केवलादिज्ञानविषयास्तेऽर्थपर्यायाः । पुनरेते द्विविधाःस्वपर्यायाः, परपर्यायाश्च । पुनस्तेऽपि केचित् स्वाभाविकाः, केचित्तु पूर्वापरादिशब्दवदापेक्षिकाः। पुनरेते सर्वेऽप्यतीता-ऽनागत वर्तमानकालभेदात् त्रिविधा इत्यादिना प्रकारेण समयानुसारतः सुधिया वस्तुनो युगपदनन्तधर्मकत्वं भावनीयम् । स च नयः सप्तविधः सप्तप्रकारः ॥ इति व्याख्यातास्तिस्रो नियुक्तिगाथाः, द्वात्रिंशच्च भाष्यगाथाः, इत्युभयं पश्चत्रिंशद्गाथार्थः ॥ २१८० ॥
के पुनस्ते सप्त नयप्रकाराः? इत्याह-- 'नेगम संगह ववहार उज्जुसुए चेव होइ बोधव्यो । सद्दे य समभिरूढे एवंभूए य मूलनया ॥२१८॥ णेगेहिं माणेहिं मिणइ त्ती णेगमस्स नेरुत्ती । सेसाणं पि नयाणं लक्खणमिणमो सुणह, वोच्छं ॥२१८२॥ संगहियपिडियत्थं संगहवयणं समासओ बिति । वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसु ॥२१८३॥ पच्चुप्पन्नग्गाही उज्जुसुओ नयविही मुणेअव्वो । इच्छइ विसेसियतरं पच्चुप्पन्नं नओ सदो ॥ २१८४ ॥
वत्थुओ संकमणं होइ अवत्थू नए समभिरूढे । वंजण-अत्थ-तदुभए एवंभूओ विसेसेइ ॥ २१८५ ॥ एताः पश्च नियुक्तिगाथाः क्रमेण व्याचिख्यासुर्भाष्यकारो नैगमनयशब्दार्थ तावदाह
णेगाई माणाई सामन्नो-भय-विसेसनाणाइं । जं तेहिं मिणइ तो णेगमो णओ णेगमाणो त्ति ॥२१८६॥ ... न एक नैकं प्रभूतानीत्यर्थः, नैकानि किन्तु प्रभूतानि यानि मानानि सामान्यो-भय-विशेषज्ञानानि । तत्र समानानां भावः सामान्यं सत्तालक्षणम् , उभयं सामान्यविशेषोभयरूपमपान्तरालसामान्यं वृक्षत्व-गोत्व-गजवादिकम् , विशेषास्तु नित्यद्रव्य
१ नैगमः संग्रहो व्यवहार मजुसूत्रत्रैव भवति बोद्धव्यः । शब्दश्च समभिरूढ एवंभूत मूलनयाः ॥ २१८१ ॥ मैकनिर्मिनोतीति नैगमस्य निरुक्तिः । शेषाणामपि नयानां लक्षणमिदं तु शृणुत, वक्ष्ये ॥ २१८२ ॥ संगृहीतपिण्डिताथै संग्रहवचनं समासतो ब्रुवन्ति । ब्रजति विनिश्चितार्थ व्यवहारः सर्वद्रव्येषु ॥ २१८३ ॥ प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिज्ञातव्यः । इच्छति विशेषिततरं प्रत्युत्पन्न नयः शब्दः ॥ २१८४ ॥ वस्तुनः संक्रमणं भवत्यवस्तु नये समभिरूढे । व्यञ्जना-ऽर्थ-तदुभयानेवभूतो विशेषयति ॥ २१८५ ॥ २ नैकानि मानानि सामान्यो-भय-विशेषज्ञानानि । यत् तैर्मिनोति ततो नैगमो नयोऽनेकमान इति ॥ २१८६॥
"on
Jain Education Internati
For Personal and Price Use Only