SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥८९४॥ 39 स्थापना-द्रव्यसादृश्यरूपाणि लक्षणानि योजयेत् ; तथाहि-जीवद्रव्यमेतैर्लक्ष्यत इति द्रव्यलक्षणमप्येतानि भवन्ति, एवमन्यलक्षणताप्यभ्यूज़ वाच्या। यदुक्तं नियुक्तिकृता- 'अहवा वि भावलक्खण' इत्यादि, तयाख्यानार्थमाह- 'भावओ वेत्यादि । 'वा' इत्यथवा, भावतो भावविषयेऽन्यद् वैशेषिक विशेषरूपलक्षणं चतुर्विधं बोद्धव्यम् ।। २१७७ ।। २१७८ ॥ तच्च 'सदहण जाणणा' इत्यादिना नियुक्तिकृता दर्शितं भाष्यकारो व्याख्यातुमाह-- सद्दहणाइसहावं जह सामाइयं जिणो परिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥ २१७९ ॥ पूर्वमौदयिकादिभावानामुदयो-पशमादयो लक्षणमित्येतद् भावलक्षणमुक्तम् । अवा, त एचौदयिकादयो भावा जीवा-ऽजीवलक्षकत्वेन भावलक्षणमुक्ताः। इदं च द्विविधमपि भावलक्षणं सामान्यम् , जीवा-उजीवलक्षकत्वेन सर्वत्र भावात् । श्रद्धानादिकं तु विशेषलक्षणम् , सम्यक्त्वादिसामायिकेष्वेव भावात् । तथाहि-जीवादिपदार्थश्रद्धानं सम्यक्त्वसामायिकस्य लक्षणम् । आदिशब्दात् 'जाणण त्ति' ज्ञानज्ञा जीवादिवस्तुपरिच्छित्तिरित्यर्थः । सा च श्रुतसामायिकस्य लक्षणम् । 'विरइ त्ति' विरमणं विरतिरशेषसावद्ययोगनिवृत्तिः । सा पुनश्चारित्रसामायिकस्य लक्षणम् । 'मीसं व त्ति' । 'मीसा व त्ति' पाठान्तरं च । तत्र मिश्रं विरताविरतं, मिश्रा वा विरत्यविरति देशविरतिसामायिकस्य लक्षणम् । ततश्चैतद् यथा श्रद्धानादिस्वभावं श्रद्धानादिचतुर्लक्षणसंयुक्तं सम्यक्त्वादिसामायिकं जिनः श्रीमन्म- हावीरः परिकथयति, तल्लक्षणयुक्तमेव तद् गौतमादिश्रोतृणां परिणमतीति । तदेवमभिहितं लक्षणद्वारम् ।। २१७९ ॥ अथ नयद्वारम् । तत्र 'नयः' इति किमुच्यते, कतिभेदश्वायम् ? इत्याहऍगेण वत्थुणोऽणेगधम्मुणो जमवधारणेणेव । नयणं धम्मेण तओ होइ नओ सत्तहा सो य ॥ २१८० ॥ __ अनेकधर्मणोऽनन्तधर्मात्मकस्य वस्तुनो यदेकेन नित्यत्वादिनाऽनित्यत्वादिना वा धर्मेणावधारणेनैव सावधारणं नयनं प्ररूपणं तकोऽसौ नयो भवति । अनन्तधर्मात्मकं वस्त्वेकांशेनैव नयति प्ररूपयतीति नयः। कथं पुनरेकस्य वस्तुनो युगपदनन्तधर्मात्मकत्वम् । अत्रोच्यते- सर्वमेव वस्तु तावत् सपर्यायम् । ते च पर्याया द्विविधा रूप-रसादयो युगपद्भाविनः, नव-पुराणादयस्तु क्रमभाविनः । पुनः शब्दा-ऽर्थपर्यायभेदात् सर्वेऽपि द्विविधाः । तत्र 'इन्द्रो दुश्च्यवनो हरिः' इत्यादिशब्दैर्येऽभिलप्यन्ते ते १ गाथा २१४७ । २ गाथा २१४८ । ३ श्रद्धानादिस्वभावं यथा सामायिक जिनः परिकथयति । तल्लक्षणमेव तत् परिणमते गौतमादीनाम् ॥ २१७९ ॥ ४ एकेन वस्तुनोऽनेकधर्मणो यदवधारणेनैव । नयनं धर्मेण ततो भवति नयः साधा सच ॥ २१८०। ||८९४॥ Jan E inematia For Personal and Use Only |w.jainsbrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy