________________
विशेषा
॥८९८॥
गोत्व-गजत्वादयस्तु गो-गजाद्याश्रयवृत्तयः सामान्यविशेषनामानो मन्तव्याः । कुतः ? इत्याह-निजकाधारेषु गो-गजादिष्वनुवृत्तिबुद्धित:- अनुगताकारबुद्धिहेतुत्वात् सामान्यनामानः, परतस्तु तुरग-महिषादेर्निवृत्तितो निवर्तनाद् विशेषनामानः । तेऽपि च गोस्वादयो भिष्वभिन्नबुद्धिहेतुत्वात् स्वाश्रयाद् भिन्ना एवास्य मतेन मन्तव्या इति । तदेवं निरूपितं सामान्यम् ।। २१९१ ॥
अथ विशेषस्वरूपनिरूपणार्थमाह
तुल्लाागइ-गुण-किरिएगदेसतीयागएऽणुदव्वम्मि । अन्नत्तबुद्धिकारणमंत विसेसो त्ति से बुद्धी॥ २१९२ ॥
आकृतिश्च गुणाश्च क्रिया चाकृति-गुण-क्रियाः, तुल्या आकृति-गुण-क्रिया यस्य तत् तुल्याकृति-गुण-क्रियम् , अतीतमतिकान्तमपगतम् , आगतं तु प्रतीतम् , अतीतं च तदागतं चातीतागतम् , एकदेशादतीतागतमेकदशातीतागतम् , तुल्याकृति-गुण-क्रियं च तदेकदेशातीतागतं च तथा तस्मिंस्तुल्याकृति-गुण-क्रियैकदेशातीतागते परमाणुद्रव्ये 'अयमस्मादन्यः परमाणुः' इत्येवंभूताया योगिनामन्यत्वबुद्धयः कारणं हेतुर्भवति सोऽन्त्यो विशेष इति 'से' तस्य नैगमस्य बुद्धिरभिप्रायः । इदमुक्तं भवति-परिमण्डलसंस्थानाः सर्वेऽपि परमाणवः' इति वैशेषिकाः, ततः 'तेषु तुल्याकृतिष्वपि सर्वेषु परमाणुषु भिन्ना, एतेन त्वभिन्ना' इत्येवं येयं परस्परमन्यत्वग्राहिका योगिनां बुद्धिरुत्पद्यते तद्धेतुभूतः परमाणुद्रव्यवर्ती अन्त्यो विशेष उच्यते । यथाभूता हि प्रथमेऽणौ विशेषा न यथाभूता एव द्वितीये, यथाभूताश्च द्वितीये 'न तथाभूता एव प्रथमे, अन्यथैकत्वमसङ्गादितीह भावार्थः । ___तथा, पार्थिवा अणवः सर्वेऽपि परस्परं तुल्यगुणाः । तथा, अणु-मनसोरायं कर्मादृष्टकारितम् , यथाऽग्नेरूज्वलनम् , वायोस्ति| र्यग् गमनमिति सर्वेऽप्यणवस्तुल्यक्रियाः । तथा, एकस्मादाकाशदेशादाकाशप्रदेशाद् यदैवैकः परमाणुः स्थितिक्षयादत्येति- अन्यत्र गच्छति- तदैव यदाऽन्यः परमाणुस्तत्स्थित्युद्भवात् तत्रैवाकाशप्रदेशे समागत्य तिष्ठति, तदैकदेशातीता-ऽऽगतत्वम् , अत एवं वैशेषिकमक्रियया तुल्याकृतिषु, तुल्यगुणेषु, तुल्यक्रियेषु, एकपदेशनिर्गतागतेषु च परमाणुद्रव्येषु यदन्यत्वबुद्धेः कारणं सोऽत्यो विशेष इति 'से' तस्य नैगमस्य बुद्धिः । स चाकृत्यादिना तुल्येष्वतुल्यबुद्धिहेतुत्वादणुभ्यो भिन्न एवेति ।। २१९२ ।।
एवं सामान्य-विशेषेषु प्ररूपितेषु परः पाह
MASTARATRAI.JA
H||८९८॥
, तुल्याकृति-गुण-क्रियैकदेशातीतागतेऽणुद्रव्ये । अन्यत्वबुद्धिकारणमन्त्यो विशेष इति तस्य बुद्धिः ॥ २११२॥
For Personal and Price Use Only
A
lww.jainmibrary.org