________________
विशेषा ॥८९९॥
नणु दव्व-पज्जववियनयावलंबि ति नेगमो चेव । सम्मट्ठिी साहु व्व कीस मिच्छत्तभेओऽयं ? ॥२१९३॥
आह- नन्वेवं सति यत् सामान्यं तद् द्रव्यम् , विशेषास्तु पर्यायाः, ततो द्रव्य-पर्यायास्तिकनयद्वयमतावलम्बित्वात् सम्यग्दृष्टिरेवायं नैगमनयः, जैनसाधुवत् । न हि जैनसाधवोऽपि द्रव्य-पर्यायोभयरूपाद् वस्तुनोऽन्यत् किश्चिदिच्छन्ति । तत् किमित्यसौE मिथ्यात्वभेदः ? इति ॥ २१९३ ॥
अत्रोत्तरमाहजे सामन्नविसेसे परोष्परं वत्थुओ य सो भिन्ने । मन्नइ अच्चतमओ मिच्छट्ठिी कणादी व्व ॥२१९४॥ दोहिं वि नएहिं नीयं सत्थमुलूएण तह वि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा ॥२१९५॥
यद् यस्मात् सामान्य-विशेषौ नैगमनयः परस्परमत्यन्तभिन्नौ मन्यते, वस्तुनोऽप्याधारभूताद् द्रव्य-गुण-कर्म-परमाणुरूपादत्यन्तभिन्नौ स ताविच्छति जैनसाधवस्तु परस्परं स्वाधाराच कथञ्चिदेव तौ भिन्नाविच्छन्ति; अतो मिथ्यादृष्टिरेवाऽयम् , कणादवदिति तथाहि-द्वाभ्यामपि द्रव्य-पर्यायास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद् यस्मात् खस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य-पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति ॥ २१९४ ॥ २१९५॥
अथ सिद्धान्तवादी स्थितपक्षदर्शनार्थमेकान्तवादिन नैगमं दूषयितुमाह--
जैइ सामन्नं सामन्नबुद्धिहेउ त्ति तो विसेसो वि । सामन्नमन्नसामन्नबुद्धिहेउ त्ति को भेओ ? ॥२१९६ ॥
यदि 'गौः' 'गौः' इत्यादिसामान्यबुदि-वचनहेतुरिति कृत्वा सामान्य तयेष्यते, हन्त ! तर्हि परमाणुगतोऽन्त्यो विशेषोऽपि सामान्य प्राप्नोति, 'विशेष: 'विशेषः' इत्यन्यसामान्यबुद्धि-वचनहेतुत्वात् । न च विशेषेष्वपि सामान्यमस्ति, द्रव्य-गुण-कर्मस्वेव तद्वृत्त्यभ्युपगमात् ।
ननु द्रव्य पर्यायास्तिकमतावलम्बीति नैगम एव । सम्यग्दृष्टिः साधुरिव कस्माद् मिथ्यात्वभेदोऽयम् ॥ २१९३ ॥ २ यत् सामान्य-विशेषौ परस्परं वस्तुतश्च स भिन्नौ । मन्यतेऽत्यन्तमतो मिथ्यादृष्टिः कणाद इव ॥ २१९४ ॥
द्वाभ्यामपि नयाभ्यां नीतं शास्त्रमुलूकेन तथापि मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेनाऽन्योन्यनिरपेक्षौ ॥ २१९५ ॥ ३ यदि सामान्य सामान्यबुद्धिहेतुरिति ततो विशेषोऽपि । सामान्यमन्यसामान्यबुद्धिहेतुरिति को भेदः ॥ २१९६ ॥ ४ घ. ज. 'त्यपरसा' ।
जन्म
1८९९॥
Jan Education Internet
For Personal and Price Use Only
dwww.jainmibrary.org