________________
विशेषा. ॥९००॥
....
| अथवा, गोस्व-गजस्वादिको विशेषोऽपि सामान्य प्रामोति- मोत्व-गजत्वादिसामान्येष्वपि सामान्य प्रामोतीत्यर्थः, 'सामान्यम्' 'सामान्यम्' इति बुद्धि-वचनयोस्तत्रापि प्रवृत्तेः । न च सामान्येष्वपि सामान्यमस्ति, “निःसामान्यानि सामान्यानि" इति वचनात् । ततश्चो- बृहद्वृत्तिः । तयुक्तविशेषस्यापि सामान्यत्वात् को भेदः सामान्य विशेषयोः - न कश्चिदित्यर्थ इति ।। २१९६ ॥
सामान्यस्यापि च विशेषरूपता प्रामोतीति दर्शयन्नाह
जइ जेण विसेसिज्जइ स विसेसो तेण जं पि सामण्णं । तं पि विसेसोऽवस्सं सत्ताइविसेसयत्ताओ ॥२१९७॥ ___यदि येन वस्तुना बुद्धिवचनं च विशेष्यते स विशेष उच्यते, तेन ततो यदपि परमपरं च सत्ता-गोवादिकं सामान्यं तदपि विशेषः प्रामोति । कुतः ? सत्तादीनामपि विशेषकत्वात् ; तथाहि- सत्तासामान्यमपि गोत्वादिभ्यो बुद्धि-वचने विशेषयति, गोत्वादयोऽपि च सत्तादिभ्यस्ते विशेषयन्त्येव ; प्रयोगः- सामान्यमपि विशेष एव, बुद्धि-वचनविशेषकत्वात् , अन्त्यविशेषवदिति । तदेवं विशेषोऽपि सामान्यम् , सामान्यमपि विशेषः प्रामोतीत्युक्तम् ॥ २१९७ ॥
किञ्च, "त्रिपदार्थसत्करी सत्ता" इति वचनात् सत्तासमवायात् सत्वं भवताऽभ्युपगम्यते, तच्चायुक्तम् । कुतः ? इत्याह
सैताजोगादसओ सओ व सत्तं हवेज दब्बस्स । असओ न खपुप्फरस व सओ व किं सत्तया कजं ? ॥२१९८॥
यत् सत्तायोगाद् वस्तुनः सत्त्वमियते तत् स्वरूपेण किं सतोऽसतो वा भवेत् ? इति वक्तव्यम् । न तावदसतः खपुष्पस्येव । सत्त्वं युज्यते । यदि तु स्वरूपेणैव सद् वस्तु, तर्हि सचया कि कार्यम् ?, तामन्तरेणावि स्वरूपेणैव वस्तुनः सत्वादिति ॥ २१९८ ॥
अपि च, पैइवत्थु सामन्नं जइ तो णगं न यावि सामन्नं । अह दव्वेसु तदुर्ग तह वि सदेसं न सामन्नं ॥ २१९९ ॥ यदि तत् सामान्य प्रतिवस्तु वर्तते तर्हि नैकम् , प्रतिवस्तुवृत्तित्वात् , पतिवस्तुस्वात्मवत् । यदिवा, न तत् सामान्यम् ,
, यदि येन विशेष्यते स विशेषस्तेन यदपि सामान्यम् । तदपि विशेषोऽवश्यं सत्तादिविशेषकत्वात् ॥ २१९७॥ २ सत्तायोगादसतः सतो वा सत्वं भवेद् इव्यस्य । असतो न खपुष्पस्येव सतो वा किं सत्तया कार्यम् १ ॥ २१९८ ॥ प्रतिवस्तु सामान्यं यदि ततो नैकं न चापि सामान्यम् । अथ द्रव्यषु तदेकं तथापि सदेशं न सामान्यम् ॥ २१९९ ॥
॥९००॥
JanEducatora Intemais
For Personal and
Use Only