________________
विशेषा०
बृहद्वत्तिः ।
॥९०१॥
भतिवस्तुवृत्तित्वात् , प्रतिवस्तुस्वात्मवत् । अथ बहुषु द्रव्येषु वृत्तमपि तदेकं तथापि सदेशं प्राप्नोति, अदेशस्य परमाणोरिव बहुषु वृत्त्ययोगात् । सदेशवे च सति न सामान्यम् , देशभेदे देशिनोऽपि तदव्यतिरिक्तस्य भेदादिति ।।२१९९ ॥ ___ अथ प्रतिवस्तु वर्तमानमपि तदेकमिष्यते तथापि दोष इति दर्शयन्नाहअह पइवत्थुमिहेगं च तहवि तं नत्थि खरविसाणं व । न य तदुवलक्खणं तं सव्वगयत्तओ खं व ॥२२००॥
अथ प्रतिवस्तु वर्तते तत् , एक चेष्यते, तथापि तद् नास्ति, अनुपलभ्यमानत्वात् , खरविषाणवत् । न च तस्य स्वाश्रयभूतस्य गवादेरुपलक्षणमुपलक्षकं तद् युज्यते, सर्वगतत्वात् , गवादिव्यक्तिभ्योऽन्यत्वाच, आकाशवदिति ।। २२०० ॥
किश्च,
सामन्नविसेसकयं जइ नाणं तेसु किंनिमित्तं तो। अह तत्तो च्चिय तम्हा तं परहेउत्ति णेगंतो ॥ २२०१॥
यदि गौः गौः' इत्यादि सामान्यज्ञानं वचनं च सामान्यहेतुकं प्रवर्तते, तथा परमाणुषु 'अयमस्माद् विशिष्टः' इति विशेषज्ञानं वचनं च यदि विशेषकृतम् , ततस्तेषु गोत्व-तुरगत्वादिसामान्येषु सर्वत्र 'सामान्यम्' 'सामान्यम्' इति ज्ञानं वचनं च तथा तेषु विशेषेषु सर्वत्र 'विशेष' 'विशेषः' इति विशेषबुद्धिवचनं च किंनिमित्तमिति वक्तव्यम् ? । न च सामान्येष्वपि सामान्यमस्ति, नापि विशेषेष्वन्ये विशेषाः सन्ति, येन तेषु तन्निमित्ते ते स्याताम् । अथ तत एव तेभ्य एष गोस्वादिसामान्येभ्योऽपरसामान्यमन्तरेणापि सामान्यज्ञानबचने अभ्युपगम्येते, विशेषेभ्य एव चान्यविशेषनिरपेक्षेभ्यो विशेषज्ञान-वचने इष्येते, तस्मात् तर्हि तत् सामान्य विशेषज्ञानं वचनं च परहेतुकं सामान्य-विशेषनिमित्तमेवेति नायमेकान्तः, सामान्य-विशेषविषयाभ्यामेव सामान्यविशेषज्ञान-वचनाभ्यां व्यभिचारादिति ॥ २२०१॥
_अथ सिद्धान्तवादी स्थितपक्षमुपदर्शयन्नाहतम्हा वत्थूणं चिय जो सरिसो पज्जवो स सामन्नं । जो विसरिसो विसेसो स मओऽणत्थंतरं तत्तो॥२२०२।।
१ अथ प्रतिवस्त्विहकं च तथापि तद् नास्ति खरविषाणमिव । न च तदुपलक्षणं तत् सर्वगतत्वतः खमिव ॥ २२०० ॥ २ सामान्यविशेषकृतं यदि ज्ञानं तेषु किंनिमित्तं ततः। अध तत एव तस्मात् तत् परहेस्विति नैकान्तः ॥ २२॥ ३ तस्माद् वस्तूनामेव यः सदशः पर्यवः स सामान्यम् । यो विसदृशो विशेषः स मतोऽनधान्तरं ततः ॥ २२०२॥
९०१॥
Jan Edua
Internat
For Personal and Price Use Only
tww.jainelibrary.org