SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । समान लोकव्यवहारः प्रवर्तते । तथाचाह-"अर्पिता-ऽनर्पितसिद्धेः" (तस्वा०५,३१,१३३) इति । तदेवमुक्तमुत्पाद-विगमलक्षणम् । धौव्यलक्षणं विशेषा०तु द्रव्यलक्षणाभिधानद्वारेणैवाभिहितम् , ध्रुवत्व-द्रव्यत्वयोरेकार्थत्वात् ॥ २१७१ ॥ अथ 'वीरिय त्ति' वीर्यलक्षणमभिधित्सुराह॥८९२॥ वीरियं ति बलं जीवरस लक्खणं जं व जस्स सामत्थं । दव्वस्स चित्तरूवं जह वीरियमहोसहाईणं ॥२१७२॥ वीर्य जीवस्य बलमुच्यते। तेन च 'बलवानयम्' इत्यादिव्यपदेशाज्जीवो लक्ष्यत इति तत् तस्य लक्षणम् । अथवा, न जीवस्यैव बलं वीर्यमुच्यते, किन्तु यद् यस्य सचेतनस्याचेतनस्य वा द्रव्यस्य चित्ररूपं सामर्थ्य तदिह वीर्यमभिधीयते यथा लोकेऽपि प्रसिद्ध हरीतकी-गुडूच्याद्यौषधीनां वीर्यम् , आदिशब्दाद् माणि-मन्त्रादिपरिग्रहः; उक्तं च- 'अचिन्त्यो हि माण-मन्त्रौषधीनां प्रभावः' इति ॥ २१७२ ।। अथ 'भावे य त्ति' भावलक्षणमाहजैमिहोदइयाईणं भावाणं लक्खणं त एववा । तं भावलक्खणं खलु तत्थुदओ पोग्गलविवागो ॥२१७३॥ यदिह भावानामौदयिकादीनां कर्मपुद्गलोदयादिरूपं लक्षणं तद् भावलक्षणम् , यथा कर्मपुद्गलानामुदयलक्षण औदायिकः, कर्मपुद्गलानामेवोपशमलक्षण औपशमिकः, तेषामेव सर्वथाऽभावलक्षणः क्षायिका, क्षयोपशमरूपमिश्रंतालक्षणः क्षायोपशमिकः, सामान्येन पुद्गलपरिणतिरूपः पारिणामिकः । एषामेव भावानां यादिसंयोगलक्षणः सांनिपातिकः । 'त एवहव त्ति 'अथवा, त एवौदयिकादयो भावा लक्षणं भावलक्षणम् । जीवो हि नारकादिव्यपदेशहेतुत्वात् तैलक्ष्यत एवेति । 'तत्थुदओ पोग्गलविवागो ति' तत्र प्रथमव्याख्यापक्ष औदयिकभावस्य कर्मपुद्गलविपाकलक्षण उदयो लक्षणम्, एवमन्येषामपि भावानां यथायोगं लक्षणं वाच्यम् । तच दर्शितमेवेति ॥ २१७३ ॥ भाष्यकारोऽपि तस्मिन्नुदये भव औदयिका; तेन वा निवृत्तः, स एव चौदयिकः' इत्यादिकां भावानां व्युत्पत्ति, शेषाणामौपशामकादिभावानामुपशमादिरूपं लक्षणं च दर्शयन्नाह-- । वीर्यमिति पलं जीवस्य लक्षणं यद्वा यस्य सामर्थ्यम् । व्यस्य चित्ररूपं यथा वीर्यमापध्यादीनाम् ॥ २१७२ ॥ २ यदिहीदयिकानां भावानां लक्षणं त एवाथवा । सद् भावलक्षणं खलु तत्रोदयः पुद्गलविपाकः ॥ २१७३ ॥ ८९२॥
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy