SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥८६२॥ Jain Educators internat समयाऽऽवलिकादयस्त्वद्धाकाल:, यथायुष्कं चायुष्ककाल इत्यादि । एते च स्थित्यादयः सर्वेऽपि जीवा ऽजीव पर्यायत्वाद् भावरूपा एवेति परमार्थतो भावकाला न विशिष्यन्त इति । परं तथापि 'प्रमाणकालेनात्राधिकारः' इति यदुक्तं तदाधिक्येन विशेषतस्तेन प्रमाणकालेन कार्यमिति हेतोरवगन्तव्यम्, अन्यथा शेषा अपि द्रव्या-ऽद्धाकालादयः पारम्पर्यादिना सामायिकनिर्गमे यथासंभवमायोजनीयाः ; यथा हि क्षायिके भावे वर्तमानस्य सामायिकं निर्गतं भगवतस्तथा रत्नमयसिंहासनलक्षणे द्रव्ये चोपविष्टस्य, यत्र च द्रव्ये तत्र तत्स्थितिलक्षणः कालोऽप्यस्त्येव तथा, यथायुष्ककालं चानुभवतः कर्माणि चोपक्रामतः, प्रस्तावं चावगच्छतः, आवीचिमरणलक्षणं मरणकाल चानुभवतः, जीवादिपदार्थवर्णनाकाले च प्रवृत्तस्य तस्य तन्निर्गतम्, प्रमाण-भावकालौ त्वधिकृतत्वेनोक्तावेव । प्रमाणकाले चाधिकृतेऽद्धाकालोऽधिकृत एव, तस्य तद्विशेषत्वादेवेति । एवं सर्वेऽपि द्रव्यकालादयोऽत्रोपयुज्यन्त एव । केवलमाधिक्येन प्रमाणकालो भावका लहोपयुज्येते इति तयोर्विशेषतोऽधिकृतत्वमुक्तमिति ।। २०८५ || २०८६ ।। २०८७ ॥ आह- ननु कालनिर्गममभिधित्सता कालो भेददर्शनतो विस्तरेण व्याख्यातः क्षेत्रं तु न किञ्चिद् व्याख्यातम्, तदत्र किं कारणम् ? । सत्यम्, सुगमत्वाद् न व्याख्यातम् । अथवा, भाष्यकारस्तत्स्वरूपं किञ्चिद् विवृण्वन्नाह— खेत्तं मयमागासं सव्वदव्वावगाहणालिंगं । तं दव्वं चेत्र निवासमेत्तपज्जायओ खेत्तं ॥ २०८८ ॥ तं च महासेणवणोवलक्खियं जत्थ निग्गयं पुव्वं । सामाइयमन्नेसु य परंपरविणिग्गमो तस्स ॥ २०८९ ॥ व्याख्या- 'क्षि निवास-गत्योः' क्षियन्ति - अवगाहन्ते निवसन्ति जीवादयोऽस्मिन्निति क्षेत्रम् । तच्चाकाशं सर्वार्थवेदिनां मतम् । कथंभूतम् ? । सर्वेषामपि जीवादिद्रव्याणां याऽवगाहनाऽवस्थानरूपा सैव लिङ्गं चिह्नमुपयोगो यस्य तत् सर्वद्रव्यावगाहनालिङ्गम् । तच्चापरपर्यायेषु द्रवणाद् गमनाद् द्रव्यमेव केवलं निवासमात्रपर्यायमाश्रित्य क्षेत्रमुच्यते । तच्चोपाधिभेदाद् बहुभेदम् । अत इह महासेनवनोपलक्षितमेत्र गृह्यते । यत्र किम् ? इत्याह- यत्र पूर्व प्रथमतः सामायिक निर्गतम्, अन्येषु तु गुणशिलकाद्यानेषु परम्परनिर्गमस्तस्य सामायिकस्य ॥ इति गाथापञ्चकार्थः ।। २०८८ || २०८९ ॥ तदेवमुक्तः षड्विधोऽपि निर्गमः, तद्भणने 'उसे निद्देसे य निग्गमे खेत्त काल पुरिसे य' इत्याद्युपोद्घातनिर्युक्तिगाथागतं व्याख्यातं १ क्षेत्र मतमाकाशं सर्वद्रव्यावगाहनालिङ्गम् । तद् द्रव्यमेव निवासमात्रपर्यायतः क्षेत्रम् ॥ २०८८ ॥ तच्च महासेनोपलक्षितं यत्र निर्गतं पूर्वम् । सामायिकमन्येषु च परम्बरविनिर्गमस्तस्य ।। २०८९ ।। २ गाथा ९७३ । For Personal and Private Use Only बृहद्वृनिः । ॥८६२॥ www.iainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy