________________
विशेषा
॥८३४॥
इत्याह-'नाणेत्यादि' ज्ञानत्वे सत्यनावाधरूपत्वादित्यर्थः। यच्च तद् मुक्तस्य सुखं मुक्तसुखं स्वाभाविकं निष्पतीकारं निरुपम च । 'मुत्तस्स पर सोक्खं णाणा-Sणाबाहओ जहा मुणिणो' इत्यादिना प्रागेव साधितम्, तत् तस्य वीतराग-द्वेषस्य मुक्तात्मनो न प्रियं न पुण्यजनितं सुखं भण्यते, न चाप्रियं न पापजनितं दुःखं भण्यते, किन्त्वेताभ्यां सर्वथा विलक्षणम् , अकर्मजनितत्वेन स्वाभाविकत्वात्, निष्पतीकाररूपत्वात् , निरुपमत्वात् , अप्रतिपातित्वाचेति ।
___ अथ 'को पसंगोऽत्थ ति “अशरीरं प्रियाऽप्रिये न स्पृशतः" इत्युक्ते कोऽत्र मुक्तात्मनि मुक्तसुखाभावप्रसङ्गः१-ने कश्चिदित्यर्थः, न पुण्य-पापजनितप्रिया-ऽप्रिययोरभावे तस्य सुतरामेव भावात् । तस्मात् "न ह वै सशरीरस्य०" इत्यादिवेदपदैर्यथोक्तनीत्या जीव-कार्मणशरीरविरहलक्षणो मोक्षः, मुक्तावस्थस्य च जीवस्य सत्वम् , तथा, “अशरीरं मिया-ऽप्रिये न स्पृशतः" इत्यतोऽपि वचनात् पुण्यपापक्षयसमुत्थं स्वाभाविकम् , अपतिपाति सुखं चास्य, इत्येतत्रितयं सिद्धम् । अत एतदनभ्युपगच्छतस्तवाभ्युपगमविरोध इति स्थितम् ।
यदपि “जरामर्य वैतत् सर्वं यदग्निहोत्रम्" इत्येतस्माद् वाक्याद् मोक्षहेतुक्रियारम्भयोग्यकालाभावाद् मोक्षाभावं शङ्कसे तदप्ययुक्तम् , तदर्थापरिज्ञानात् । तस्य ह्ययमर्थः- यदेतदग्निहोत्रं तद् यावज्जीवं सर्वमपि कालं कर्तव्यम् , वाशब्दाद् मुमुक्षुभिर्मोक्षहेतुभूतमप्यनुष्ठान विधेयमिति । इत्येवं वेदपदोक्तद्वारेण युक्तिभिश्च प्रसाधितो मोक्षः । छिन्नश्च प्रभासस्य तत्संशयः ।। २०२२ ।। २०२३ ॥
ततः किं कृतवानसौ ? इत्याह--
छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पब्वइओ तिहि ओ सह खंडियसएहिं॥२०२४॥ व्याख्या पूर्ववत् ।। इति त्रिपश्चाशदूगाथार्थः ॥ २०२४ ।। (गणधरेभ्यस्तु परत एकोनपश्चाशदाधिकानि पञ्चदश शतानि गाथानां व्याख्यातानि, अङ्कतोऽपि १५४९, उभयं गाथा २०२४)
॥ इत्येकादशो गणधरवादः समाप्तः ॥ ॥ तत्समाप्तौ च सर्वापि गणधरवादवक्तव्यता समाप्ता ॥
||८३४॥
१ गाथा १९९२ । २ गाथा १९०४ ।
Jan E
inema
For Personal and Price Use Only