________________
विशेषा०
बृहद्वत्तिः ।
॥८३३॥
SAR
प्रायवतः परस्य मतमाशङ्कय परिहरनाह
नै वसंतं अवसंतं ति वा मई नासरीरगहणाओ। फुसणाविसेसणं पि य जओ मयं संतविसयं ति ॥२०२१॥ _ 'अशरीरं वावसन्तं' इत्यत्र लुप्तस्याकारस्य दर्शनाद् 'न वसन्तमवसन्तं काप्यतिष्ठन्तम्' इति व्याख्यानतो नास्ति मुक्त्यवस्थायां जीवः, काप्यवसनात् , असत्त्वादेव च नामु प्रिया-पिये स्पृशत इति परस्य मतिर्भवेत् । तदेतद् न । कुतः? इत्याह- अशरीरग्रहणात् । एतदुक्तं भवति- 'न विद्यते शरीरं यस्य' इत्यत्र पर्युदासनिषेधात् पूर्वोक्तयुक्त्या मुक्त्यवस्थायामशरीरो जीवो गम्यते, इत्यतोत्राकारप्रश्लेषव्याख्यानं कर्तुन पार्यते, अशरीरग्रहणाद् मुक्तौ जीवसिद्धेः । किञ्च, प्रिया-प्रिये न स्पृशतः' इति यदशरीरस्य स्पर्शनाविशेषणं तदपि यस्मात् सद्विषयमेव मतम् , तस्माद् न मुक्तो जीवस्याभावः । यदि शरीरशब्दस्य जीवाभावो वाच्यः स्यात् तदा तं प्रिया-पिये न स्पृशत इति विशेषणमनर्थकं स्यात् । न हि 'वन्ध्यापुत्रं प्रिया-ऽप्रिये न स्पृशतः' इति विशेष्यमाणं विराजते । तस्माद् मुक्त्यवस्थो जीव एवाशरीरशब्दवाच्यः, न पुनस्तदभावः। ततो नाकारप्रश्लेषव्याख्यानं युज्यत इति । तदेवं 'अशरीरं वा वसन्त' इत्यनेन जीवकार्मणशरीरवियोगलक्षणस्य मोक्षस्य मुक्तजीवसत्त्वस्य चाभिधानात् तनिषधं कुर्वतस्तवाभ्युपगमविरोध एवेति ॥ २०२१ ।।
एवमपि मुक्तस्य सुखाभावलक्षणं तृतीयपक्षमप्रतिविहितमेवोत्पश्यन् परः प्राहएवं पि होज्ज मुत्तो निस्सुह-दुक्खत्तणं तु तदवत्थं । तं नो पिय-ऽप्पियाई जम्हा पुण्णे-यरकयाइं ॥२०२२ ॥ नाणाऽबाहत्तणओ न फुसंति वीयराग-दोसस्स । तस्स प्पियमप्पियं वा मुत्तसुहं को पसंगोऽत्थ ? ॥ २०२३ ॥
एवमुक्तमकारेण मुक्तो जीवो भवेदित्यकामैरप्यभ्युपगतमस्माभिः, तथा च सति जीवस्य कर्मवियोगलक्षणो मोक्षः, तत्र जीवसत्वं च सिद्धम् । यत्तु निःसुख-दुःखत्वं सिद्धस्य मया प्रेरितं तत् "प्रिया-अप्रिये अशरीरं न स्पृशतः" इति वचनात् तदवस्थमेव । अत्रोत्तरमाहतदेतद् न, यस्मात् पुण्य-पापकर्मजनिते एव जीवानां पिया-पिये सांसारिकसुख-दुःखे भवतः। ते च तं क्षीणनिःशेषपुण्य-पापकर्माण | सकलसंसारार्णवपारमाप्तं मुक्तात्मानं न स्पृशत इत्युत्तरगाथायां संबन्धः । न चैतावता तस्य निःसुखत्वमिति स्वयमेव द्रष्टव्यम् । कुतः?
१ न वसन्तमवसन्तमिति वा मतिन शरीरग्रहणात् । स्पर्शनाविशेषणमपि च यतो मतं सद्विषयमिति ॥ २०२१ ॥ २ एवमपि भवेद् मुक्तो निःसुख-दुःखत्वं तु तदवस्थम् । तद् नो प्रिया-प्रिये यस्मात् पुण्ये तरकृते ॥ २०२२ ॥ ज्ञानाऽनावाचवतो न स्पृशतो वीतराग-द्वेषस्य । तस्य प्रियमप्रियं वा मुक्तसुखं कः प्रसोध ॥ २०२३ ॥
८३३॥
Jan Education Internati
For Personal and Price Use Only
Mww.jainabrary.org