SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥८३२॥ "नत्रिवयुक्तमन्यसदृशाधिकरणे लोके तथा ह्यर्थगतिः" इति । इह च शरीरसदृशोऽशरीरो जीव एव गम्यते, द्वयोरप्युपयोगरूपत्वेन सदृशत्वात् । न चेह शरीरं सादृश्यबाधकम् , तस्य जीवेन सह क्षीर-नीरन्यायतो लोलीभूतत्वेनैकत्वादिति । तदेवं येन यस्मात् कारणात् ननिषेधादन्यमिंस्तद्विध एवान्यपदार्थ संप्रत्ययो भवति, तेन तस्मात् कारणात् "अशरीरं वा वसन्तं" इत्यत्राशरीरग्रहणे जीव एवारीरो युज्यते, न तु खरविषाणं तुच्छरूपोऽभाव इत्यर्थः । तदेवमशरीरमिति व्याख्यातम् ॥ २०१७ ॥ २०१८ ॥ • वसन्त' इत्येतद् व्याचिख्यासुराहजं व वसतसतमाह वासद्दओ सदेहं पि । न फुसेज्ज वीयरायं जोगिणमिट्टे-यरविसेसा ॥ २०१९ ॥ यस्माच्चाशरीरम् । कथंभूतम् ? । वसन्त लोकाग्रे निवसन्तं तिष्ठन्तमिति यावत् । अनेन वसनविशेषणेन तमशरीरशब्दवाच्यमर्थ सन्तं विद्यमानमाह, न स्वसद्भूतम् , वसनस्य सद्धर्मत्वात् । तस्मात् कथं जीवनाशरूपं निर्वाणं स्यात्, न केवलमशरीरं मुक्तम्, किन्तु वाशब्दात् सदेहमपि सशरीरमपि वीतरागं- क्षीणोपशममोहयोगिनं परमसमाधिमन्तं भवस्थमपि न स्पृशेयुः । के। इष्ट-तरविशेषाः सुख-दुःखभेदा इत्यर्थः ॥ २०१९ ।। प्रकारान्तरेणापि 'वाव सन्त' इत्येतद् व्याचिख्यासुराह वाव त्ति वा निवाओ वासदत्थो भवंतमिह संतं । बुज्झाऽव त्ति व संतं नाणाइविसिट्ठमबाह ॥२०२०॥ ___ 'वा' इत्यथवा, 'वाव' इत्ययं शब्दो निपातः, स च वाशब्दार्थः । ततश्चाशरीरं सन्तं भवन्तं मुक्तौ विद्यमानं जीवं प्रिया-ऽप्रिये न स्पृशतः, वाशब्दात् सशरीरमपि वीतरागं न ते स्पृशतः। यदिवा, 'वसन्तम्' इत्यन्यथा व्याख्यायते-'बुज्झाऽव त्ति वेत्यादि' 'वा' इत्यथवाऽयमर्थः । 'वाच संतं ति' रक्षण-गति-प्रीत्यादिष्वेकोनविंशतावर्थेष्ववधातुः पठ्यते । गत्यर्थाश्च धातवो ज्ञानार्था अपि भवन्ति । ततश्चाहविनेय ! त्वमेवं बुध्यस्व । किं तत् ? इत्याह-अशरीरं सन्तं मुक्त्यस्थायां विद्यमानं जीवम् ; अथवा, ज्ञानादिभिर्गुणैर्विशिष्टं सन्तमित्याह ब्रूते, | मियाऽपिये न स्पृशतः, वाशब्दात् सशरीरमपि वीतरागमिति तथैवेति ॥ २०२० ॥ आह- नन्वेवमक्षरकुट्या मयापि स्वाभिप्रायसिद्धये व्याख्यानान्तरं कर्तुं पार्यत एव । न हीयं भवतैव केवलेन क्रेण्या गृहीता, इत्यभि । यद् वा वसन्तं सन्तं तमाह वाशब्दतो सहमपि । न स्पृशेयुर्वीतराग योगिनमिष्टे तरविशेषाः ॥ २०१९ ॥ २ वावेति वा निपातो वाशब्दार्थों भवन्तमिह सन्तम् । बुध्यस्वाऽवेति वा सन्तं ज्ञानादिविशिष्टमथवाऽय ॥ २०२० ॥ SION | ॥८३२।। For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy