SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥ ८३१ ॥ Jain Education Internation रीरं नष्टं प्रिया-प्रिये सुख-दुःखे यद् न स्पृशतः, तत् स्फुटमेव बुध्यत एवेदम्, नष्टस्य सुख-दुःखस्पर्शायोगात्, अशरीरशब्देन च जीवनाशाभिधानात् । एवंभूते चास्य वाक्यस्यार्थे मुमुक्षुजीवस्य निर्वाणप्रदीपस्येव सर्वनाशमभ्युपगच्छतां कोऽस्माकमभ्युपगमविरोधलक्षणो दोषः ?- न कश्चिदपीति पराभिप्राय इति ।। २०१६ ।। अत्र प्रभासस्य भगवान् बोधान्यथात्वमवगम्यैतेषां वेदपदानां यथावस्थितमर्थं व्याचिख्यासुराह - 'वेयवयाण य अत्थं न सुट्टु जाणसि इमाण तं सुणसु । असरीरव्ववएसो अघणो व्व सओ निहाओ || २०१७|| निओ य अन्नम्म तव्विहे चेव पच्चओ जेण । तेणासरीरग्गहणे जुत्तो जीवो न खरसिंगं ॥ २०१८ ॥ आयुष्मन् ! प्रभास ! न केवलं युक्तिम्, वेदपदानाममीषामर्थं च त्वं सुष्ठु न जानासि ततस्तं शृणु " न ह वै०" इत्यादि पूर्वार्ध सुगमत्वादत्र गाथाद्वये न व्याख्यातम्, तदपि सुखप्रतिपत्यर्थं व्याख्यायते - 'न' इति निपातो निषेधार्थः । 'ह''' इत्येतदपि निपातद्वयं हिशब्दार्थत्वाद् यस्मादर्थे । सह शरीरेण वर्तत इति सशरीरो जीवस्तस्य सशरीरस्येत्यत्रैवकारो द्रष्टव्यः । ततश्चायमर्थ:- यस्मात् सशरीरस्य जीवस्य प्रिया-प्रिययोः सुख-दुःखयोरपद्दतिर्विद्यातोऽन्तरं नास्ति, नत्वशरीरस्यः तस्मादशरीरं शरीररहितं मुक्त्यवस्थायां वसन्तं लोकान्तस्थितं जीवं प्रिया-प्रिये सुख-दुःखे न स्पृशतः । इदमुक्तं भवति - यावदयं जीवः सशरीरः, | तावत् सुखेन दुःखेन वाऽन्यतरेण कदाचिदपि न मुच्यते; अशरीरस्त्वसौ क्षीणवेदनीयत्वात् सुख-दुःखाभ्यां कदाचिदपि न स्पृश्यत इति । एवंभूते चास्य वाक्यस्यार्थे सति योऽयमशरीरव्यपदेशः, असौ सत एव विद्यमानस्यैव जीवस्य मुक्त्यवस्थायां विधीयते, न तु सर्वथा नष्टस्य । कुतः ? इत्याह- निषेधात् । इह यो यस्य निषेधः स तस्य सत एव विधीयते, न त्वततः यथाऽधन इति, अत्र सत एव देवदत्तस्य धननिषेधो विधीयते, न त्वसतः खरविषाणस्य । आह- न विद्यते शरीरं यस्येत्येवं निषेधादन्यपदार्थे जीव एवं कथं प्रतीयते ? इत्याह- 'ननिसेहओ य इत्यादि' व्याख्यातो विशेषप्रतिपत्तेः पर्युदासवृत्तिना नञा निषेधो नञ्निषेधस्तस्माद् ननिषेधात् कारणात् सशरीरादन्यस्मिंस्तद्विध एव शरीरसदृशे कस्मिंश्चिदन्यपदार्थे संप्रत्ययो विज्ञेयः, यथा 'न ब्राह्मणोऽब्राह्मणः' इत्युक्ते ब्राह्मणसदृशः क्षत्रियादिरेव गम्यते, न तु तुच्छरूपोऽभावः । उक्तं च ॐ वेदपदानां चार्थे न सुष्ठु जानास्येषां तं शृणु । अशरीरव्यपदेशोऽधन इव सतो निषेधात् ॥ २०५७ ॥ नग्निषेधतश्चान्यस्मिंस्तद्विध एव प्रत्ययो येन । तेनाशरीरग्रहणे युक्तो जीवो न खरशृंङ्गम् ॥ २०१८ ॥ For Personal and Private Use Only बृहद्वृत्ति: ॥ ८३१॥ w.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy