SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥ ८३०|| Jain Education Internatio स्वात्' इत्यनैकान्तिको हेतुः । तथा कृतकत्वादिरप्यनैकान्तिकः, घटमध्वंसाभावेन व्यभिचारात् । असिद्धवायम्, सिद्धस्य ज्ञान - सुखयोः स्वाभाविकत्वेन कृतकत्वाद्ययोगात्, आवरणा-ऽऽबाधकारणाभावेन च तत्तिरोभावमात्रमेत्र निवर्तते, न पुनस्ते क्रियते, घटादिवत् ; नाप्यभूते प्रादुर्भवतः, विद्युदादिवत् येन तयोरनित्यत्वं स्यात् । न हि घनपटलापगमे चन्द्रज्योत्स्नायाः सूर्यप्रभाया वा तिरोभावमात्रनिवृत्तौ कृतकत्वम्, अभूतप्रादुर्भावो वा वक्तुं युज्यत इति । अथ तेनाविर्भूतेन विशिष्टेन रूपेण कृतकत्वादनित्ये सिद्धस्य ज्ञान-सुखेः प्रतिक्षणं च पर्यायरूपतया ज्ञेयविनाशे ज्ञानस्य विनाशात्, सुखस्यापि प्रतिसमयं परापररूपेण परिणामादेतयोरनित्यत्वमुच्यते । तर्हि सिद्धसाध्यता, इति दर्शयति- 'उप्पाय- द्विईत्यादि' इत्थमात्माssकाश-घटादिरूपस्य सर्वस्यापि वस्तुस्तोमस्य स्थित्यु-त्पाद - प्रलयस्वाभाव्याभ्युपगमात् सिद्धमुख ज्ञानयोरपि कथञ्चिदनित्यत्वाद् नायं तदनित्यत्वापत्तिलक्षणोऽस्माकं दोष इति । २०१४ ॥ तदेवं जीवस्य सदवस्थालक्षणं निर्वाणम्, निवृत्तस्य च निरुपमसुखसद्भावं युक्तितः प्रसाध्य वेदोक्तद्वारेणापि तत्साधनार्थमाहन ह. वइ ससरीरस्सप्पिय-ऽप्पियावहतिरेवमादि व जं । तदमोक्खे नासम्मि व सोक्खाभावम्मि व न जुत्तं ॥ २०१५॥ "न ह वै सशरीरस्य प्रिया-प्रिययोर पहतिरस्ति” “अशरीरं वा वसन्तं प्रिया-इमिये न स्पृशतः" इति च यद् वेदोक्तम्, तदप्यमोक्षे मोक्षाभावे - जीव-कर्मणोर्वियोगेऽनभ्युपगम्यमान इत्यर्थः, तथा, “मतिरपि न प्रज्ञायते " इति वचनाद् मुक्तावस्थायां सर्वथा नाशे वा जीवस्याभ्युपगम्यमाने, सच्चे वा मुक्तात्मनः सुखाभाव इष्यमाणे न युक्तं प्राप्नोति - अभ्युपगमविरोधस्तवेत्यर्थः । अनेन हि वाक्येन किल यथोक्तो मोक्षः, मुक्तौ च निष्कर्मणो जीवस्य सच्चम्, निरुपमसुखं च तस्य, एतानि त्रीण्यप्यभ्युपगम्यन्ते । एतच्च पुरस्ताद् व्यक्तीकरिष्यते । ततोऽस्य त्रितयस्य निषेधं कुर्वतस्तवाभ्युपगमविरोध इति भावः || २०१५ । savat परिहृत्य मध्यगतं जीवनाशपक्षसंभविनमभ्युपगमविरोधं परिहर्तुं तावत् परः माह हो असरी चि सुह- दुक्खाई पिय-ऽप्पियाई च । ताइं न फुसंति नहं फुडमसरीरं ति को दोसो ? ॥२०१६|| " न ह वै ० " इत्यादिवेदवाक्यस्य किल परोऽमुमर्थं मन्यते- शरीरसर्वनाशेन नष्टः खरविषाणकल्प एवोच्यते तमेवंभूतमश १ न ह वै सशरीरस्य प्रिया-प्रिया पद्दतिरेवमादि वा यत् । तदमोक्षे नाशे वा सौख्याभावे वा न युक्तम् || २०१५ ॥ २ नष्टोऽशरीर एव सुख-दुःखे प्रिया-प्रिये च ते न स्पृशतो नष्टं स्फुटमशरीरमिति को दोषः ? | २०१६ ॥ For Personal and Private Use Only वृत्तिः । C ||८३० ॥ w.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy