SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥८२९॥ यो वा कश्चित् संसाराभिनन्दी मोहमूढः परमार्थादर्शी विषयायिषमात्रगृद्धो देहे-न्द्रियजमेव सुखं मन्यते, न तु सिद्धिसुखम् , तस्य तेन खमेऽप्यदर्शनात , तस्य वादिनः संसारविपक्षे मोक्षे प्रमाणतः साधिते सति 'निःसुखः, सिद्धः, देहेन्द्रियाभावात्' इत्ययं दोषो भवेत्। न त्वस्माकं संसारातीतं पुण्य-पापफलसुख दुःखाभ्यां सर्वथा विलक्षणं धर्मान्तरभूतमेवाऽनुपममक्षयं निरुपचरितं सिद्धिसुखमिच्छतामिति ॥ २०१२ ।। ___ अत्र प्रेर्यमाशक्य परिहरन्नाहकह नणु मेयं ति मई नाणा-ऽणाबाहउ त्ति नणु भणियं । तदणिच्चं णाणं पि य चेयणधम्मो त्ति रागो व्व ॥२०१३॥ अत्रैवंभूता मतिः परस्य भवेत्- नन्विच्छन्ति भवन्तः सिद्धस्य यथोक्तं सुखम् , किन्तु नेच्छामात्रतो वस्तुसिद्धिः, अपितु प्रमाणतः ततो येन प्रमाणेन तत् सिध्यति तद् वक्तव्यम् । अनुमानेन तदनुमीयत इति चेत् । तर्हि केनानुमानेन तदनुमेयम्- अनुमीयत इत्यर्थः ? इत्याह- 'नाणा-ऽणावाहउ त्ति नणु भणियं ति' ननु भणितमत्रार्थे प्रागनुमानम्- सिद्धस्य प्रकृष्टं सुखम् , ज्ञानत्वे सत्यनाबाधत्वात् , मुनिवदिति । पुनरपि परः पाह- यद्येवम् , तमुनित्यं सुखं ज्ञानं च सिद्धस्य, चेतनधर्मत्वात् , रागवदिति ॥ २०१३ ॥ अथवा हेत्वन्तरमाहकेयगाइभावओ वा नावरणा-ऽऽबाहकारणाभावा । उप्पाय-द्विइ-भङ्गरसहावओ वा न दोसोऽयं ॥ २०१४ ॥ अथवा, अनित्ये सिद्धस्य सुख-ज्ञाने, तपःप्रभृतिकष्टानुष्ठानेन क्रियमाणत्वात् , आदिशब्दादभूतप्रादुर्भावात् , घटवदिति । अत्रोत्तरमाह-'नावरणेत्यादि न सिद्धस्यानित्ये ज्ञान-सुखे । कुतः? । आवरणं चावाधश्वावरणा-ऽऽवाधौ, तयोः कारणं हेतुस्तस्याऽभावात्, आकाशवदिति । इदमुक्तं भवति-सिद्धस्य ज्ञानं सुखं च यद्यपगच्छेत् तदा स्यादनित्यम् , अपगमश्च ज्ञानस्यावरणोदयात् , सुखस्य त्वाबाधहेतुभूतादसातवेदनीयोदयादिकारणाद् भवेत् ; आवरण-वेदनीयादीनि च मिथ्यात्वादिभिर्वन्धहेतुभिर्वध्यन्ते, ते च सिद्धस्य न विद्यन्ते, ततस्तदभावाद् नावरणा-ऽऽवाधाकारणसद्भावः, तदभावाच्च न सिद्धस्य ज्ञान-सुखापगमः, तदसत्वे च तयोः सदाऽत्रस्थितत्वात् कथमनित्यत्वम् । न च चेतनधर्माः सर्वेऽप्यनित्या भवन्ति, जीवगतद्रव्यत्वा-ऽमूर्तत्वादिभिव्यभिचारात् । ततश्च 'चेतनध, कथं ननु मेयमिति भतिर्शाना-उनाबापत इति ननु भणितम् । तदानित्यं ज्ञानमपि च चेतनधर्म इति राग इव ।। २.१३॥ BA८२९॥ २ कृतकादिभावतो वा नापरणा-याधकारणाभावात् । उत्पाद-स्थिति-भङ्गस्वभावतो वा न दोषोऽयम् ॥ २०१४ ॥
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy