________________
यत्तिः ।
विशेषा ॥८२८॥
कत्वलक्षणा भवति । प्रकृतयोजनौमाह-- तथा तेनैव प्रकारेण स्वरूपतः स्वाभाविकानन्तसौख्यमयो जीवः, तस्य च सुखस्यैवोपघातकारकं पापकर्म विज्ञेयम् । पुण्यं स्वनुत्तरसुरपर्यन्तसुखफलं तस्य स्वाभाविकसुखस्यानुग्रहकारकम् । ततः सर्वावरणापगमे प्रकृष्टज्ञानमिव समस्तपुण्यपापक्षये सकलं परिपूर्ण निरुपचरितं निरुपम स्वाभाविकमनन्तं सुखं भवति सिद्धस्येति ॥ २००८ ॥ २००९ ॥
अन्येन वा प्रकारेण मुक्तस्य तस्य सुखसंभवमाहजह वा कम्मक्खयओ सो सिद्धत्ताइपरिणई लभइ । तह संसाराईयं पावइ तत्तो च्चिय सुहं ति ॥२०१०॥
यथा वा सकलकर्मक्षयादसौ मुक्तात्मा सिद्धत्वादिपरिणतिं लभते, तत एव सकलकर्मक्षयात् संसारातीतं वैषयिकसुखाद् विलक्षणस्वरूपं निरुपमं तथ्यं सुखं प्रामोति । एतेन यदुक्तम्- 'क्षीणपुण्य-पापत्वेन कारणाभावाद् निःसुख-दुःखो मुक्तात्मा, व्योमवत्' इत्येतदपि प्रत्युक्तं द्रष्टव्यम् , 'कारणाभावात्' इत्यस्य हेतोरसिद्धत्वात् , सकलकर्मक्षयलक्षणकारणजन्यत्वेन सिद्धसुखस्य सकारणत्वादिति ।। २०१०॥
यदुक्तम्- 'आधारो देहो चिय जं सुह-दुक्खोवलद्धीणं' इति; तबाहसाया- सायं दुक्खं तब्विरहम्मि य सुहं जओ तेणं । देहि-दिएसु दुक्खं सोक्खं देहि-दियाभावे ॥ २०११ ॥
ननु यत् पुण्यफलं सातं सुखतया लोकव्यवहारतो रूढं तत् सर्व दुःखमेवेत्यनन्तरमेव समर्थितम् , असातं तु पापफलत्वाद् निर्विवादं दुःखमेव । एवं च सति सर्व दुःखमेवास्ति संसारे, न सुखम् । तच्च दुःखं सिद्धस्थ सर्वथा क्षीणम् । अतस्तद्विरहे यद् यस्मात् सिद्धस्य स्वाभाविकं, निरुपमम् , अनन्तं च युक्तिसिद्धयेव सुखम् , तेन तस्मात कारणात् पारिशेष्यन्यायात संसारिणामेव जीवानां देहे-न्द्रियेष्वाधारभूतेषु यथोक्तस्वरूपं दुःखम् , सुखं तु देहेन्द्रियाभाव एव, सिद्धस्य क्षीणनिःशेषसुख दुःखत्वेन तस्य तत्र युक्तिसिद्धत्वादिति ॥ २०११ ।।
अथवा, देहे-न्द्रियाभावे सुखाभावलक्षणो दोषस्तस्य भवतु यः, किम् ? इत्याहजी वा देहि-दियजं सुहमिच्छइ तं पडुच्च दोसोऽयं । संसाराईयमिदं धम्मंतरमेव सिद्धिसुहं ॥ २०१२ ॥
, यथा वा कर्मक्षयतः स सिद्धत्वादिपरिणति लभते । तथा संसारातीतं प्राप्नोति तत एव सुखामिति ॥ २०१० ॥२ गाथा २००३ । ३ साता-ऽसातं दुःखं तद्विरहे च सुखं यतस्तेन । देहे-न्द्रियेषु दुःखं सौख्यं देहे-न्द्रिपाभावे ॥२०११॥ ४ यो वा देहेन्द्रियजं सुखमिच्छत्ति तं प्रतीत्य दोषोऽयम् । संसारातीतमिदं धर्मान्तरमंव सिद्धिसुखम् ॥ २०११ ॥
परासस
इससससस
OH11८२८॥
E
ine
For Personal and
Use Only
LOw.jana