________________
विशेषा ०
॥८२७॥
Jain Education Internati
'विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छ व्व । तं सुहमुवयाराओ न उवयारो विणा तच्चं ॥२००६ ॥ विषयसुखं तश्वतो दुःखमेव दुःखप्रतीकाररूपत्वात् कुष्ठ गण्डा-शरोग- कायपान- च्छेदन- दम्भनादिचिकित्सावत् । यश्च लोके तत्र सुखव्यपदेशः प्रवर्तते स उपचारात् । न चोपचारस्तथ्यं पारमार्थिकं विना कापि प्रवर्तते, माणवकादौ सिंहाद्युपचारवदिति ||२००६॥ ततः किम् ? इत्याह-
तेम्हा जं मुत्तसुहं तं तच्चं दुक्खसंखएऽवस्सं । मुणिणोऽणाबाहस्स व णिप्पडियारप्पसूईओ || २००७॥
तस्माद् यद् मुक्तस्य संबन्धि तदेव सुखं तथ्यं निरुपचरितम् । कुतः १ । स्वाभाविकत्वेन निष्प्रतीकाररूपस्य तस्य प्रसूतेरुत्पत्तेः । कथम् ? । अवश्यम् । क सति । दुःखसंक्षये । सांसारिकं हि सर्व पुण्यफलमपि दुःखरूपतया समर्थितम्, ततः पापफलम्, इतरच्च सर्व दुःखमेवेहास्ति नान्यत्, तच्च मुक्तस्य क्षीणम् ; अतस्तत्संक्षयेऽवश्यंतया यत् तस्य निष्प्रतीकारं स्वाभाविकं निरुपमं सुखमुत्पद्यते तदेव तथ्यम् । कस्येव । विशिष्टज्ञानवतोऽनावाधस्य मुनेरिव । उक्तं च
"निर्जितमद-मदनानां वाक्-काय मनोविकाररहितानाम् । विनिवृत्तपराशानामिव मोक्षः सुविहितानाम् ॥ १ ॥"
इति ॥। २००७ ।।
अथवा, प्रकारान्तरेणापि मुक्तस्य तथ्यसुखसंभवमाह -
जह वा नाणमओऽयं जीवो नाणोवघाइ चावरणं । करणमणुग्गहकारिं सव्वावरणक्खए सुद्धी || २००८ ॥ तह सोक्खमओ जीवो पावं तस्सोवघाइयं नेयं । पुण्णमणुग्गहकारिं सोक्खं सव्वक्खए सयलं ||२००९|| व्याख्या- यथा वाऽनन्तज्ञानमयोऽसौ स्वरूपेण जीवः । तदीयज्ञानस्य च मत्यावरणादिकमावरणमुपघातकं मन्तव्यम् । करणानि विन्द्रियाणि तज्ज्ञानस्य, सूर्यातपस्य तदावारकमेघपटल च्छिद्राणीवोपकारकाणि । सर्वावरणक्षये तु ज्ञानशुद्धिर्निर्मलता सर्वथावभास
१ विषयसुखं दुःखमेव दुःखप्रतीकारतश्चिकित्सेव । तत् सुखमुपचाराद् नोपचारो विना तथ्यम् ॥ २००६ ॥
२ तस्माद् यद् मुक्तसुखं तत् तथ्यं दुःखसंक्षयेऽवश्यम् । मुनेरनाबाधस्येव निष्प्रतीकारप्रसूतेः ॥ २००७ || ३ प्रशमरतौ श्लो० २३८ ।
४ यथा वा ज्ञानमयोऽयं जीवो ज्ञानोपघाति चावरणम् । करणमनुग्रहकारि सर्वावरणक्षये शुद्धिः ॥ २००८ ॥ तथा सौख्यमयो जीवः पापं तस्योपधातिकं ज्ञेयम् । पुण्यमनुग्रहकारि सौख्यं सर्वक्षये सकलम् ॥ २००९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥८२७॥
www.jainelibrary.org