________________
विशेषा०
॥८२६॥
Jain Education International
भगवानाह .
जैत्तो च्चिय पच्चक्खं सोम्म ! सुहं नत्थि दुक्खमेवेदं । तप्पडियारविभत्तं तो पुण्णफलं ति दुक्खं ति ॥२००५॥ ॐ बृहद्वृत्तिः ।
सौम्य ! प्रभास ! यत एव दुःखेऽनुभूयमाने कस्याप्यविपर्यस्तमतेः सुखं प्रत्यक्षं नास्ति, सुखानुभवः स्वसंविदितो न विद्यते, अत एवास्माभिरुच्यते— 'दुक्खमेवेदं' इति, यत् किमप्यत्र संसारचक्रे सम्-चन्दना ङ्गनासंभोगादिसमुत्थमपि विद्यते तत् सर्वं दुःखमेवेत्यर्थः, केवलं तस्याङ्गनासंभोगादिविषयौत्सुक्य जनितारतिरूपस्य दुःखस्य प्रतीकारोऽङ्गना संभोगादिकस्तत्प्रतीकारस्तेन तत्प्रतीकारेण दुःखमपि सद् विभक्तं मूढैर्भेदेन व्यवस्थापितम्- तत्प्रतीकाररूपं कामिनी संभोगादिकं पामाकण्डूयनादिवत् सुखमध्यवसितम्, शूलारोपण-शूल - शिरोबाधादिव्याधि-बन्ध-वधादिजनितं तु दुःखमिति । रमणीसंभोग चक्रवर्तिपदलाभादि सुखं स्वसंविदितं 'दुःखम्' इति वदतां प्रत्यक्षविरोध इति चेत् । तदयुक्तम्, मोहमूढप्रत्यक्षत्वात् तस्य, तल्लाभौत्सुक्यजनितारतिरूपदुःखप्रतीकाररूपत्वाद् दुःखेऽपि तत्र सुखाध्यवसायः, पामाकण्डूयना-पथ्याहारपरिभोगादिवत् ; तथाचोक्तम्
"नग्नः प्रेत इवाविष्टः क्वणन्तीमुपगृह्य ताम् । गाढायासितसर्वाङ्गः स सुखी रमते किल ॥ १ ॥ औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापगमनाय यथा श्रमाय राज्यं स्वहस्तगतदण्डमिवातपत्रम् ॥ २ ॥
भुक्ताः श्रियः सकलकामदुघास्ततः किं संप्रीणिताः प्रणयिनः स्वधनैस्ततः किम् ? | दत्तं पदं शिरसि विद्विषतां ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ? ॥ ३ ॥ इत्थं न किञ्चिदपि साधन-साध्यजातं स्वमेन्द्रजालसदृशं परमार्थशून्यम् ।
अत्यन्त निर्वृतिकरं यदपेतबाधं तद् ब्रह्म वाञ्छत जनाः ! यदि चेतनास्ति ॥ ४ ॥"
इत्यादिना । 'पुण्णफलं ति दुक्खं ति' यत एवमुक्तप्रकारेण दुःखेऽपि सुखाभिमानः, तस्मात् पुण्यफलमपि सर्वं ततो दुःखमेवेति । २००५ ।
एतदेव प्रपञ्चयति-
१ यत एव प्रत्यक्षं सौम्य ! सुखं नास्ति दुःखमेवेदम् । तत्प्रतीकारविभक्तं ततः पुण्यफलमिति दुःखमिति ॥ २००५ ॥
For Personal and Private Use Only
२ क. ग. खमिति' ।
॥। ८२६ ॥
www.jainelibrary.org