________________
विशेषा०
॥८२५॥
Jain Education Internatio
तदेवं सति सर्वदा प्रकाशमयः प्रकाशस्वभाव एव जीवः, केवलं संसार्यवस्थायां छद्मस्थः किञ्चिन्मात्रमवभासयति, क्षीणाsaणावरणच्छिद्रैरिन्द्रियच्छिद्रैश्वावभासनात्, सच्छिद्रकुट-कुड्याद्यन्तरितप्रदीपवदिति । मुक्तस्तु मुक्तावस्थायां प्राप्तो जीवः सुबहुतरं विजानाति यदस्ति तत् सर्व प्रकाशयतीत्यर्थः, सर्वपिधानविगमात् - सर्वावरणक्षयादित्यर्थः, अपनीत समस्त गृहः पुरुष इव, विगतसमस्त कुट-कुड्याद्यावरणप्रदीप इव वेति । यो हि सच्छिद्रावरणान्तरितः स्तोकं प्रकाशयति स निःशेषावरणापगमे सुबहेव प्रकाशयति, न तु तस्य सर्वथा प्रकाशाभाव इति भावः । तस्मात् 'मुत्तस्स परं सोक्खं जाणा-ऽणाबाहओ' इत्यादि स्थितम् ।। २००० | २००१ ॥
अथाद्यापि मुक्तस्य सुखाभावं पश्यन् परः प्राह
णा-पुण्याई जं सुह- दुक्खाइं तेण तन्नासे । तन्नासाओ मुत्तो निस्सुह- दुक्खो जहागासं ॥ २००२॥ अहवा निस्मुह-दुक्खो नभं व देहें दियादभावाओ | आधारो देहो च्चिय जं सुह- दुक्खोवलद्धीणं ॥२००३॥ पुण्यात् सुखमुपजायते, पापाच्च दुःखम् इति भवतामपि संमतम्, तेन तस्मात् तयोः पुण्य-पापयोः कारणभूतयोनशे सुखदुःखयोः कार्यरूपयोनाशाद् निःसुख-दुःख एव मुक्तात्मा प्राप्नोति, तत्कारणाभावात्, आकाशवदिति । अथवा, निःसुख-दुःखोऽसौ, देहेन्द्रियाभावात्, नभोवद, यद् यस्माद् देह एव, तथेन्द्रियाणि च सुख-दुःखोपलब्धीनामाधारो दृश्यते, न पुनर्देहाभावे सुख-दुःखे दृश्येते नापीन्द्रियाभावे ज्ञानं काप्युपलभ्यते । ततः सिद्धस्य कथं तदभावात् तानि श्रद्धीयन्ते ? इति ।। २००२ ।। २००३ ।।
अत्रोत्तरमाह
पैण्णफलं दुक्खं चिय कम्मोदयओ फलं व पावस्स । नणु पावफले वि समं पच्चक्खविरोहिआ चैव ॥२००४||
चक्रवर्तिपदलाभादिकं पुण्यफलं निश्चयतो दुःखमेव, कर्मोदयजन्यत्वात्, नरकत्वादिपापफलवत् । परः प्राह- ननु पापफलेऽपि समानमिदम्, तथाहि - अत्रापि वक्तुं शक्यत एतत् उक्तं पापफलं दुःखत्वेनाभिमतं परमार्थतः सुखमेव कर्मोदयजन्यत्वात्, पुण्यफलवत् । एवं च वदतां प्रत्यक्षविरोधिता, स्वसंवेद्य सुख-दुःखयवैिपरीत्येन संविश्यभावादिति । २००४ ॥
१ गाथा १९९२
१०४
२ पुण्यापुण्यकृते यत् सुख-दुःखे तेन तचाशे । तन्नाशाद् मुक्तो निःसुख-दुःखो यथाकाशम् ॥ २००२ ॥
अथवा निःसुख-दुःखो नभ इव देहेन्द्रियाद्यभावात् आधारो देह एव यत् सुख-दुःखोपलब्धीनाम् ॥ २००३ | ३ पुण्यफलं दुःखमेव कर्मोदयतः फलमिव पापस्य । ननु पापफलेऽपि समं प्रत्यक्षविरोधिता चैव ॥ २००४ ॥ ४ क.ख. 'स्वस्य वै'।
For Personal and Private Use Only
बृहद्वत्तिः ।
॥८२५॥
ww.jainelibrary.org