SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विशेषा० ૮૨કા तस्मात् कारणाद् विरुद्धमेतत्- 'अस्ति चासो मुक्तो जीवः, अथ च स ज्ञानरहितः' इति । न हि स्वरूपस्याभावे स्वरूपवतोवस्थानं युज्यते, तद्व्यतिरिक्तस्य तस्यासत्त्वात् , तथाचानन्तरमेवोक्तम्- 'न हि जच्चतरगमणं जुत्तं नभसो व्व जीवत्त' इति ॥१९९७॥ बृहद्वत्तिः । पराभिप्रायमाशङ्कयैतदेव समर्थयन्नाहकिह सो नाणसरूवो नणु पच्चक्खाणुभूइओ नियए। परदेहम्मि वि गज्झो सपवित्ति-निवित्तिलिंगाओ॥१९९८॥ ननु कथमसौ जीवो ज्ञानस्वरूप इति नियते । अत्रोत्तरमाह- 'ननु' इत्यक्षमायाम् , ननु निजे देहे तावन् प्रत्यक्षानुभवादेव ज्ञानस्वरूपो जीव इति विज्ञायते, इन्द्रियव्यापारोपरमेऽपि तद्वयापारोपलब्धार्थानुस्मरणात् , तद्व्यापारेऽपि चान्यमनस्कतायामनुपलम्भात् , अदृष्टा-ऽश्रुतानामपि चार्थानां तथाविधक्षयोपशमपाटवात् कदाचिद् व्याख्यानावस्थायां चेतसि स्फुरणात् । एतच्च स्वसंवेदन| सिद्धमपि भवतः प्रष्टव्यतां गतम् । तथा, स जन्तुः परदेहेऽपि ज्ञानस्वरूप एवेति ग्राह्यः । कुतः । तथाविधप्रवृत्ति निवृत्तिलिङ्गादिति ॥ अपिच, मुक्तावज्ञानित्वापादने महान् विपर्यासः । कुतः ? इत्याह सव्वावरणावगमे सो सुद्धयरो भवेज सूरो व्व । तम्मयभावाभावादण्णाणित्तं न जुत्तं से ॥ १९९९ ॥ सेन्द्रियो जन्तुर्देशतोऽप्यावरणक्षये तावत् तारतम्येन ज्ञानयुक्त एव भवति, यस्य त्वनिन्द्रियस्य सर्वमप्यावरण क्षीणम् , स निःशेषावरणापगमे शुद्धतर एव भवति- संपूर्णज्ञानप्रकाशयुक्त एव भवतीत्यर्थः; यथा समस्ताभ्रावरणापगमे संपूर्णप्रकाशमयः मूर्यः । ततस्तन्मयभावस्य प्रकाशमयत्वस्य करणाभावेनाभावाद् हेतोः 'से' तस्य मुक्तस्य यदज्ञानित्वं प्रेर्यते भवता, तद् न युक्तम् , आवारकाभावे तस्यैव प्रकर्षवतो ज्ञानप्रकाशस्य सद्भावादिति ॥ १९९९ ॥ तदेवं सति किमिह स्थितम् ? इत्याहऎवं पगासमइओ जीवो छिद्दावभासयत्ताओ। किंचिम्मेत्तं भासइ छिद्दावरणपईवो व्य ॥२०.०॥ सुबहुयरं वियाणइ मुत्तो सव्वप्पिहाणविगमाओ । अवणीयघरो व्व नरो विगयावरणप्पईवो ब्व ॥२००१॥ १ गाथा १९९४ । २ कथं स ज्ञानस्वरूपो ननु प्रत्यक्षानुभूतितो निजके। परदेहेऽपि प्रायः स प्रवृत्ति-निवृत्तिलिशात् ॥ १९९८ ॥ ३ सर्वावरणापगमे स शुद्धतरो भवेत् सूर इव । तन्मयभावाभावादज्ञानित्वं न युक्तं तस्य ॥ १९९९ ॥ ३ एवं प्रकाशमयो जीवशिछद्रावभासकत्वात् । किञ्चिन्मानं भासते छिद्रावरणप्रदीप इव ॥ २०००॥ N||८२४॥ सुबहुतरं विजानाति मुक्तः सर्वपिधानविगमात् । अपनीतगृह इब नरो विगतावरणप्रदीप इव ॥ २००१ ॥ Plea Jan Educationantemand
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy