SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥८२३॥ Jain Educators Internation भवति, तद्विपक्षस्वभावत्वात् एवं जीवस्वाभाव्यादजीवोऽप्यसौ कदाचिदपि न भवति; अन्यथा नभः परमाण्वादीनामपि स्वस्वभावत्यागेन वैपरीत्या पयाऽतिप्रसङ्गादिति । अत्राह - यद्येवम्, तर्हि यद् भवतैवोक्तम्- 'अजीवो मुक्तात्मा, करणाभावात्, आकाशवत्' इति, तत् कथं नेतव्यम् १ | अत्रोच्यते - परस्य प्रसङ्गापादनमेव तदस्माभिः कृतम्, तत्करणे च कारणमुक्तमेव, न पुनरनेन हेतुना मुक्तस्याजीवत्वं सिध्यति, प्रतिबन्धाभावात् ; तथाहि यदि करणैर्जीवत्वं कृतं भवेत्, यथा दहनेन धूमः; व्यापकानि वा जीवत्वस्य करणानि यदि भवेयुः, यथा शिंशपाया वृक्षत्वम्, तदा करणनिवृत्तौ भवेज्जीवत्वनिवृत्तिः यथाऽग्नि-वृक्षत्वनिवृत्तौ धूम-शिंशपात्वयोः; न चैतदस्ति, जीवत्वस्यानादिपारिणामिकभावरूपत्वेनाकृतकत्वात् । व्याप्य व्यापकभावोऽपीन्द्रियाणां शरीरेणैव सह युज्यते, उभयस्यापि पौगलिकत्वात्, न तु जीवत्वेन, जीवस्यामूर्तत्वेनात्यन्तं तद्विलक्षणत्वात् । तस्मात् करणनिवृत्तावप्यनिवृत्तमेव मुक्तस्य जीवत्वमिति ।। १९९४ ।। आह- यद्येवम्, 'अज्ञानी मुक्तात्मा करणाभावात्, आकाशवत्' इत्यत्र धर्मिस्वरूपविपरीतसाधनाद या हेतोर्विरुद्धतोद्भाविता, सा न भवद्भिरपि परिहृता, अतस्तत्रान्यत् किमप्युत्तरमुच्यतामित्याशङ्कयाह मुत्ताभावओ नोवलद्धिमंतिंदियाई कुंभो व्व । उवलंभदाराणि उ ताइं जीवो तदुबलद्धा ॥ १९९५ ॥ दुवरमे विसरणओ तव्वावारे वि नोवलंभाओ । इंदियभिन्नो आया पंचगवक्खोवलद्धा वा ॥ १९९६॥ अनोख्या पूर्ववत् । केवलं प्रस्तुते भावार्थ उच्यते- यदीन्द्रियाण्युपलब्धिमन्ति भवेयुस्तदा तन्निवृत्तावप्युपलब्धिनिवृत्तिर्भवेत्, न चैतदस्ति, अन्वयव्यतिरेकाभ्यां जीवस्योपलब्धिमवनिश्चयादिति ।। १९९५ ।। १९९६ ।। स्वभावभूतं च ज्ञानं जीवस्य इति कथं करणनिवृत्तौ मुक्तस्य तद् निवर्तत इति दर्शयन्नाह - नाहिओ न जीवो सरूवओऽणुव्व मुत्तिभावेणं । जं तेण विरुद्धमिदं अस्थि य सो नाणरहिओ य ॥ १९९७॥ यद् यस्माज्ज्ञानरहितो जीवः कदाचिदपि न भवति, ज्ञानस्य तत्स्वरूपत्वात् यथा मूर्तिभावेन रहितोऽणुर्न भवति, तेन १ मूर्तादिभावतो नोपलब्धिमन्तीन्द्रियाणि कुम्भ इव । उपलम्भद्वाराणि तु तानि जीवस्तदुपलब्धा ॥ १९९५ ॥ तदुपरमेऽपि स्मरणतस्तद्वापारेऽपि नोपलम्भात् । इन्द्रियभिन्न आत्मा पञ्चगवाक्षेोपलब्धेव ॥। १९९६ ॥ २ ज्ञानरहितो न जीवः स्वरूपतोऽणुरिव मूर्तिभावेन यत् तेन विरुद्धमिदमस्ति च स ज्ञानरहितश्च ॥ १९९७ ॥ For Personal and Private Use Only बृहद्वतिः । ||८२३ ॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy