________________
विशेषा०
॥८२२॥
Jain Educationa Internatio
अपरस्त्वाह---
भुत्तो करणाभावादण्णाणी खं व, नणु विरुद्धोऽयं । जमजीवया वि पावइ एतो च्चिय भाइ तन्नाम ॥१९९३॥ बृहद्वृत्तिः ।
नवज्ञानी मुक्तात्मा करणाभावात्, आकाशवत् । अत्राचार्यः प्राह - ननु धर्मिस्वरूपविपरीत साधनाद् विरुद्धोऽयं हेतुः ; तथाहि - अनेनैतदपि सिध्यति - अजीवो मुक्तात्मा करणाभावात्, आकाशवत् । अत्र परः सोत्कर्ष भणति - 'तन्नाम ति' 'नाम' इत्यभ्यनुज्ञायाम् - अस्त्वेतत् न नः किमपि श्रूयते । न हि मुक्तात्मनामजी वस्त्रेऽस्माकं किश्चिद् नश्यति, येन हेतोर्विरुद्धता प्रेर्यमाणा शोभेत । अत्राह कश्चित् ननु मुक्तस्याजीवत्वमाहतानामप्यनिष्टमेव ततश्चैतद् दूषणमाचार्येणापि परिहर्तव्यमेव यच्चात्मनोऽपि दूषणं समापतति तत् कथं परस्यैवैकस्योद्भाव्यते ? । सत्यमेतत्, किन्तु परशक्तिपरीक्षार्थं प्रेर्यमाचार्यः कृतवान् कदाचित् क्षोभाद् विगलितप्रतिभः परोऽत्रापि प्रतिविधाने स्खलितस्तूष्णीं विदध्यात् । परमार्थतस्तु जीवस्याजीवत्वं कदाचिदपि न भवत्येव ॥। १९९३ ॥
कुतः १ इत्याह-
देव्वा ऽमुत्तत्त सहावजाइओ तस्स दूरविवरीयं । न हि जच्चंतरगमणं जुतं नभसो व्व जीवत्तं ॥ १९९४ ॥
तस्य मुक्तात्मनो हि यस्मात् कारणाद् न युक्तमिति संबन्धः । किं तद् न युक्तम् ? इत्याह- एकस्या जीवत्वलक्षणाया जातेर्यदजीवत्वलक्षणं जात्यन्तरं तत्र गमनं जात्यन्तरगमनम् तन्न युक्तम् । कथंभूतं जात्यन्तरम् ? इत्याह- दूरमत्यर्थं विपरीतं दूरविपरीतम् । कस्या दूरविपरीतम् : इत्याह-- 'सहाव जाइड त्ति' जीवत्वलक्षणा या स्वाभाविकी स्वभावभूता जातिः स्वभावजातिस्तस्याः । किंवद् या स्वभावजातिः ? इत्याह-- उपमानप्रधानत्वाद् निर्देशस्य, द्रव्या-अमूर्तत्ववदिति द्रव्यत्ववदमूर्तत्यवच्चेत्यर्थः । स्वभावजातेर्दूरविपरीतं सत् कस्य यथा किं न युक्तम् ? इत्याह- नभस इव जीवत्वम् । इदमत्र हृदयम् - द्रव्यत्वम्, अमूर्तत्वं च जीवस्य तावत् स्वभावभूता जातिः, तस्याश्च यद् दूरविपरीतं जात्यन्तरमद्रव्यत्वम्, अमूर्तत्वं च तत्र गमनं तस्य कस्यामप्यवस्थायां न भवति । एवं जीवत्वमपि जीवस्य स्वभावभूतैव जातिः, ततस्तस्या अपि स्वभावजातयेद् दूरविपरीतमजीवत्वलक्षणं जात्यन्तरं तत्र गमनं मुक्तावस्थायामपि तस्य न युज्यते । न ह्यजीवस्य सतो नभसः कदाचिदपि जीवत्वाप्राप्तिर्भवति । तस्माद् मुक्तो जीवो यथाऽद्रव्यं मूर्तथं न
१ मुक्तः करणाभावादशानी खमिव, ननु विरुद्धोऽयम् । यदजीवतापि प्राप्नोत्येतस्मादेव भणति तन्नाम || १९९३ ॥ २ द्रव्या मूर्तत्ववत् स्वभावजातितस्तस्य दूरविपरीतम् । न हि जात्यन्तरगमनं युक्तं नभस इव जीवत्वम् ॥ १९९४ ॥
For Personal and Private Use Only
॥८२२॥
www.jainelibrary.org