________________
कष्ट
विशेषा०
॥८२२॥
SHARINASA
यद्येवम्, ततः प्रस्तुते किम् ? इत्याहजह दीवो निव्वाणो परिणामन्तरमिओ तहा जीवो । भण्णइ परिनिव्वाणो पत्तोऽणाबाहपरिणामं ॥१९९१॥
यथाऽनन्तरोक्तखरूपपरिणामान्तरं प्राप्तः प्रदीपो 'निर्वाणः' इत्युच्यते तथा जीवोऽपि कर्मविरहितकेवलामूर्तजीवस्वरूपभावलक्षणमवाधं परिणामान्तरं प्राप्तो निर्वाणो निर्वृति प्राप्त उच्यते । तस्माद् दुःखादिक्षयरूपा सतोऽवस्था निर्वाणमिति स्थितम् ॥ १९९१॥
तर्हि शब्दादिविषयोपभोगाभावाद् निःसुख एवायमिति चेत् । नैवम् । कुतः ? इत्याइमुत्तस्स परं सोक्खं जाणाणाबाहओ जहा मुणिणो । तद्धम्मा पुण विरहादावरणा-ऽऽबाहहेऊणं ॥१९९२ ॥
मुक्तस्य जन्तोः परं प्रकृष्टमकृत्रिमममिथ्याभिमानजं स्वाभाविक सुखमिति प्रतिज्ञा । 'णाणाणाबाहउ त्ति' ज्ञानप्रकर्षे सति जन्म-जरा-व्याधि-मरणे-टवियोगा-ऽरति-शोक-क्षुत्-पिपासा-शीतोष्ण-काम-क्रोध-मद-शाठ्य-तृष्णा-राग-द्वेष-चिन्तौ-त्सुक्यादिनिःशेषावाधविरहितत्वादिति हेतुः । तथाविधमकृष्टमुनेरिव । यथोक्तावाधरहितानि काष्ठादीन्यपि वर्तन्ते, परं तेषां ज्ञानाभावाद् न सुखम् । अतस्तब्यवच्छेदार्थ ज्ञानग्रहणम् । कथं पुनरसौ प्रकृष्टज्ञानवान , आवाधरहितश्च ? इत्याह- 'तद्धम्मेत्यादि' तद्धर्मा- प्रकृष्टज्ञाना-ऽनावाधवान् मुक्तात्मा । कुतः। विरहात्- अभावात् । केषाम् । आवरणहेतूनाम् , आवाधहेतूनां च । एतदुक्तं भवति-क्षीणनिःशेषावरणत्वात् प्रकृष्टज्ञानवानसौ, वेदनीयकर्मादीनां च सर्वेषामप्यावाधहेतूनां सर्वथाऽपगमात् सर्वाऽऽवाधरहितोऽयमिति । प्रयोगःस्वाभाविकेन खेन प्रकाशेन प्रकाशवान् मुक्तात्मा, समस्तप्रकाशावरणरहितत्वात् , तुहिनांशुवत् । तथा चाह
"स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमश्रवत् ॥ १॥" इति । तथा, अनाबाधसुखो मुक्तात्मा, समस्ताबाधहेतुरहितत्वात् , ज्वराद्यपगमे स्वच्छाऽऽतुरवत् । तथाचोक्तम्
" स ब्याबाधाभावात् सर्वज्ञत्वाच्च भवति परमसुखी | व्याबाधाभावोऽत्र स्वच्छस्य ज्ञस्य परमसुखम् ॥ १॥" इति ॥ १९९२ ॥
, यथा दीपो निर्वाणः परिणामान्तरमितस्तथा जीवः । भण्यते परिनिर्वाणः प्राप्तोऽनावाधपरिणामम् ॥ १९९१ ।। २ मुक्तस्य परं सौख्यं ज्ञानानाबाधतो यथा मुनेः । तद्धर्मा पुनर्विरहादावरण ऽऽबाघहेतूनाम् ॥ १९९२ ॥