SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥८२० ॥ Jain Educationa Interna प्रदीपेऽनन्तरमेव तामसपुद्गलरूपो विकारः समुपलभ्यत एव, चिरं चासौ पुरस्ताद् यद् नोपलभ्यते, तत् सूक्ष्म-सूक्ष्मतरपरिणामभावात् ; तथाहि विशीर्यमाणस्य जलदस्यापि यः कृष्णाभ्रपुद्गलविकारः स परिणामसौक्ष्म्याद् नोपलभ्यते । तथा, अञ्जनस्यापि पवनेन हियमाणस्य यदुत्कृष्टरज उड्डीयते तदपि परिणामसौक्ष्म्याद् नोपलभ्यते, न पुनरसत्त्वादिति । १९८८ ।। • चित्ररूपश्च पुलपरिणाम इति दर्शयन्नाह- 'होऊण इंदियंतरगज्झा पुणरिंदियंतरग्गहणं । खंधा एंति न एंति य पोग्गलपरिणामया चित्ता ॥ १९८९ ॥ इह सुवर्णपत्र लवण-सुण्ठी- हरीतकी चित्रक- गुडादयः स्कन्धाः पूर्वमिन्द्रियान्तरग्राह्याचक्षुरादीन्द्रियविषया भूत्वा पुनर्द्रव्यक्षेत्र कालादि सामग्भ्यन्तरं प्राप्य पुद्गलपरिणामवैचित्र्यादिन्द्रियान्तरग्रहणं स्पर्शन- रसनादीन्द्रियग्राह्यतामायान्तिः तथाहि सुवर्ण पत्रीकृतं चक्षु भूत्वा शोधनार्थमनौ प्रक्षिप्तं भस्मना मिलितं सत् स्पर्श्वनेन्द्रियग्राद्यतामेति पुनः प्रयोगेण भस्मनः पृथक्कृतं चक्षुविषयतामुपगच्छति । लवण सुण्ठी- हरीतकी चित्रक गुडादयोऽपि प्राक् चक्षुरिन्द्रियग्राद्या भूत्वा पचात् सूपायन्ते बहौषधसमुदाये च काथ-चूर्णा- वलेहादिपरिणामान्तरमापन्नाः सन्तो रसनेन्द्रियसंवेद्या भवन्ति । कर्पूर-कस्तूरिकादीनामपि पुलाचक्षुर्याह्या अपि वायुना दूरमुपनीता घ्राणसंवेद्या भवन्ति । योजननवकात्तु परतो गतास्तथाविधं कञ्चित् सूक्ष्मपरिणाममापन्ना नैकस्यापीन्द्रियस्य विषयतां प्रतिपद्यन्त इति । अनया दिशाऽन्यापि पुद्गलपरिणामता चित्रा भावनीयेति ।। १९८९ ।। अथास्यैव पुद्गल परिणामवैचित्र्यस्य प्रस्तुते योजनार्थमाह ऐगेगेंदियगज्झा जह वायव्वादओ तहग्गेया । होउं चक्खुग्गज्झा घाणिदियगज्झयामेति ॥ - १९९० ॥ वायुः स्पर्शनेन्द्रियस्यैव ग्राह्यः, रसो रसनस्यैव गन्धो घ्राणस्यैव, रूपं चक्षुष एव, शब्दस्तु श्रत्रस्यैव ग्राह्यः । तदेवं यथा वायाव्यदयः पुद्गला एकैकस्य प्रतिनियतस्येन्द्रियस्य ग्राह्या भूत्वा पश्चात् परिशापान्तरं किमप्यापन्ना इन्द्रियान्तरग्राह्या अपि भवन्तीति स्वयमेव गम्यते, तथा प्रस्तुता अपि प्रदीपगता आग्रेयाः पुद्गलाक्षुर्याद्या भूत्वा पश्चाद् विध्याते तस्मिन् प्रदीपे त एवं तापसीभूताः सन्तो घ्राणेन्द्रियग्राह्यतामुपयान्ति तत् किमुच्यते- 'किं दीसए न सो सक्खं' इति । ननु घ्राणेन्द्रियेणोपलभ्यत एव विध्यातप्रदीपविकार इति ।। १९९० ॥ १ भूत्वेन्द्रियान्तरप्राद्याः पुनरिन्द्रियान्तरग्रहणम् । स्कन्धा यन्ति न यन्ति च पुलपरिणामता चित्रा ॥ १९८९ ॥ २ एकै केन्द्रियग्राह्मा यथा वायव्यादयस्तथाऽऽग्नेयाः । भूत्वा चक्षुर्याद्या प्राणेन्द्रियग्राह्यतां यन्ति ॥ १९९० ॥ ३क. ग. श्रोत्रेन्द्रियम' ४ गाथा १९८८ । For Personal and Private Use Only बृहद्वृत्तिः । ॥८२० ॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy