SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ DOORD विशेषा. ॥८१९।। सर्वगतत्वबाधकानुमानसद्भावात् । तथाहि-त्वपर्यन्तदेहमात्रव्यापको जीवः, तत्रैव तद्गुणोपलब्धेः, स्पर्शनवत् , इत्यनुमानाद् बाध्यते सर्वगतत्वं जीवस्य । एवं 'न बध्यते, नापि मुच्यते जीवः, द्रव्यत्वे सत्यमूर्तत्वात् , नभोवत्' इत्याद्यपि दूषणं, 'बध्यते पुण्य-पापकर्मणा जीवः, दान-हिंसादिक्रियाणां सफलत्वात् , कृष्यादिक्रियावत् , तथा, विघटते सम्यगुपायात् कोऽपि जीव-कर्मसंयोगः, संयोगत्वात् , काञ्चनधातुपाषाणसंयोगवत्' इत्याद्यनुमानात् परिहर्तव्यमिति ।। १९८५॥ ___ अथवा, किमकान्तेन बद्धाग्रहर्मोक्षस्य नित्यत्वं साध्यते, सर्वस्यापि वस्तुनः परमार्थतो नित्यानित्यरूपत्वात् । उत्कटा-ऽनुस्कटपर्यायविशेषविवक्षामात्रेणैव हि 'केवलम्' इत्यादिव्यपदेश इति दर्शयन्नाह को वा निच्चग्गाहो सव्वं चिय विभव-भङ्ग-ठिइमइयं । पजायंतरमेत्तप्पणादनिच्चाइववएसो ॥ १९८६ ॥ अथ कथञ्चिदनित्यत्वेऽपि मोक्षस्य न किञ्चिद् नः सूयत इति भावः । इह 'कालंतरनासी वा घडो ब्व' इत्यादिगाथाः प्रागपि षष्ठगणधरे बन्ध-मोक्षविचारे व्याख्याता एव । ततो यदिह न व्याख्यातं तत् ततोऽवगन्तव्यमिति ।। १९८६ ।। ___ अथ प्रथमपक्षे यदुक्तम्- "कि दीवस्स व नासो निवाणं' इत्यादि । तत्रोत्तरमाहन य सव्वहा विणासोऽणलस्स परिणामओ पयस्सेव । कुंभस्स कवालाण व तहाविगारोवलंभाओ ॥१९८७॥ न प्रदीपानलस्य सर्वप्रकारैर्विनाशः, परिणामत्वात् , पयसो दुग्धस्येव; अथवा, यथा मुद्गराद्याहतस्य कपालतया परिणतस्य घटस्य, यथा वा चूर्णीकृतानां कपालानाम् । कुतो न सर्वथा विनाशः ? इत्याह- तथा तेन रूपान्तरप्रकारेण विकारस्य प्रत्यक्षादिप्रमाणोपलम्भादिति ॥ १९८७ ॥ अत्र प्रेय परिहारं चाहजइ सव्वहा न नासोऽणलस्स किं दीसए न सो सक्खं ? । परिणामसुहमयाओ जलयविगारंजणरउ व्व॥१९८८॥ यदि सर्वथाऽनलस्य न नाशः, तर्हि विध्यातानन्तरं किमित्यसौ साक्षाद् न दृश्यते । अत्रोत्तरमाह- 'परिणामेत्यादि' विध्याते . गाथा १८५३ । २ गाथा १९८२ । ३ गाथा १९७५ । ४ न च सर्वथा विनाशोऽनलस्य परिणामतः पयस इव । कुम्भस्य कपालानामिव तथाविकारोपलम्भात् ॥ १९८७ ॥ ५ क. ग. 'अथ प्रे'। ६ यदि सर्वथा न नाशोऽनलस्य किं दृश्यते न स साक्षात् । परिणामसूक्ष्मतातो जलदविकारोऽअनरज इव ॥ १९८८ ॥ ॥८१९॥ Jan Education Intem For Personal and Price Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy