________________ बृहद्वृत्तिः / // 10.00 "द्वौ नौ प्रकृतमर्थ गमयतः" इति वचनाद् नोकाराकारलक्षणं प्रतिषेधद्वयं यस्मात् प्रकृतिं गमयति-प्रकृतमेवार्थ प्रतिपादविशेषायतीत्यर्थः, तेन कारणेन 'नोअपृथ्वी' इति भणिते नोशब्दस्य सनिषेधपरत्वात् पृथिवीगतिर्भवति- पृथिव्याः प्रतिपत्तिर्भवतीत्यर्थः / 'देसनिसेहे वि तद्देसो ति' देशनिषेधवाचके तु नोशब्द तस्या जलादिरूपाया अपृथिव्या एवोत्तरपदे श्रूयमाणाया देशस्तद्देशो गम्यते, देशनिषेधके नोशब्दे नोअपृथिवीति याचिते जलादिरूपापृथिव्येकदेशं देवो ददातीत्यर्थः // 2502 // __ अथ प्रस्तुतार्थतात्पर्यमाहउवयाराओ तिविहं भुवमभुवं नोभुवं च सो देइ / निच्छयओ भुवमभुवं तह सावयवाई सब्वाइं // 2503 // स कुत्रिकापणदेवो याचितः सन् वस्तु ददाति / कतिविधम् ?, किंवा तत् ? इत्याह- त्रिविधं त्रिप्रकारम् , चतुर्थस्य नोअभूपक्षस्य प्रथमपक्ष एवान्तर्भावात् / तत्र भुवं लेष्टुम् , अभुवं जलादि, नोभुवं भूम्येकदेशं ददाति / कुतः ? इत्याह- उपचारात्- व्यवहारनयमताश्रयणादित्यर्थः, स एव हि देशदेशिव्यवहारं मन्यते, न तु निश्चय इति भावः / अत एवाह- 'निच्छयउ इत्यादि' निश्चयतस्तु भुवमभुवं चेत्येवं द्विविधमेव वस्तु ददाति, तृतीयस्य नोभूपक्षस्य देश-देशिव्यवहार एवोपपद्यमानत्वात् , तस्य च निश्चयनयेनानभ्युपगमादिति / तदेवं भू-जल-जलण' इत्यादौ पृथिव्याः प्रथम निर्दिष्टत्वात् तामधिकृत्योक्तम् / अथ शेषाणि जलादिवस्तून्यधिकृत्याह'तह सावयवाई वि' न केवलमित्थं भुवं ददाति, तथा शेषाण्यपि जलादिवस्तूनि 'पैगईए अगारेणं' इत्यादि प्रकारेण विशेष्य याचितः सन् व्यवहारनयमतेन यथोक्तविधिना त्रिप्रकाराणि ददाति / कुतः ? इति चेत् / उच्यते- यतः साक्यवानि सदेशान्येतानि सर्वाण्यपि जलादिवस्तूनि / अतस्तृतीयोऽपि देशविषयो दानप्रकार एतेषु संभवतीति भावः / निश्चयनयमतेन तु देशदशिव्यवहाराभावादेतान्यपि जलादीनि द्विप्रकाराण्येव ददातीति / तदेवं सावयचे वस्तुनि प्रकारत्रयेण प्रकारद्वयेत संभवति // 2503 // ___ अथ निरवयवे वस्तुनि प्रकारद्वयेनैव दानसंभव इति दर्शयन्नाह 1000 // 1 उपचारात् त्रिविधं भुवमभुवं नोभुवं च स वदाति / निश्चयतो भुवमभुवं तथा सावयवानि सर्वाणि गाथा 24 गाव 2494 / For Personal and Use Only