SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥९९९॥ Jain Education Internat समर्पयति, तथाऽत्रापि 'पृथिवीं देहि' इति भणिते सर्वस्या आनेतुमशक्यत्वात् प्रायस्तया प्रयोजनाभावाच्च यथा तदेकदेशेऽपि पृथि - व्येकांशेऽपि लेष्टौ देवस्य समर्पणमतिर्जायते । कुतः १ इत्याह- प्रकरणवशात्, 'अनेनापि तदेकदेशेन लेण्डुना प्रस्तुतार्थः सेत्स्यति' इत्येवं प्रस्ताववशादित्यर्थः । प्रकृतमाह- 'तहा लेट्ठदेसे वि त्ति' यथा 'पृथिवीं देहि' इत्युक्ते सति प्रतिपादितन्यायेन तदेकदेशेऽपि लेष्टौ समर्पणमतिर्जायते तथा तेनैव प्रकारेण 'नोपृथ्वीं देहि' इत्युक्ते तत्खण्डरूपे तदेकदेशेऽपि समर्पणबुद्धिरुत्पद्यत इति ॥ २४९९ ॥ ।। २५०० ॥ आह- ननु 'ईहरा पुढवि च्चिय सो ले व्व समाणजाइलक्खणओ' इति वचनादेकदेशः पूर्वं भवद्भिः पृथिवीत्वेनोक्तः स कथमिदानीं नोपृथिवी स्यात् १ इत्याशङ्कयाह लेव्वावेक्खाए तह वि तद्देसभावओ तम्मि । उवयारो नोपुढवि पुढवि च्चिय जाइलक्खणओ ॥२५०१ ॥ यद्यपि लेष्वेकदेशः पृथिव्यैव, तथापि 'उवयारो ति तस्मिन् लेष्वेकदेशे नोपृथिवीत्वस्योपचारः क्रियत इत्यर्थः । कया ? इत्याह- लेण्डद्रव्यापेक्षया लेष्टोः प्रागुक्तन्यायेन यत् पृथिवीद्रव्यत्वमारोपितं तदपेक्षयेत्यर्थः । कुतः १ इत्याह- तद्देशभावतो लेष्टुद्रव्यैकदेशत्वादित्यर्थः । प्रागुक्तन्यायेन तावल्लेष्टुरेवेह पृथ्वीद्रव्यं तदपेक्षया च तदेकदेशे नोपृथ्वीत्युपचर्यत इति भावः । परमार्थतस्त्वियं लेक देशलक्षणं नोपृथ्व्येव मन्तव्यम्, समानजातिलक्षणत्वादिति को वै न मन्यते, अस्माभिरेव प्रागुक्तत्वात्, इदीनीमपि च स्मर्यमाणत्वात् इति ।। २५०१ ॥ नोअकारो भयनिषेधपक्षमधिकृत्याह- सेहदुगं गई गमेइ जं तेण नोअपुढवित्ति । भणिए पुढवित्ति गई देसनिसेहे वि तसो || २५०२ ॥ १ गाथा २४९७ । २ लेष्टुद्रव्यापेक्षया तथापि तद्देशभावतस्तस्मिन् । उपचारो नोपृथिवी पृथिव्यैव जातिलक्षणतः ।। २५०१ ।। ३ प्रतिषेधद्विकं प्रकृतिं गमयति यत् तेन नोअपृथिवीति । भणिते पृथिवीति गतिर्देशनिषेधेऽपि तदेशः ॥ २५०२ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥ ९९९ ॥ www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy