________________
SK
विशेषा
॥९७२॥
नेइखेडजणवउल्लुग महगिरि धणगुत्त अज्जगंगे य । किरिया दो रायगिहे महातवोतीरमणिनाए ॥ २४२५॥
उल्लुका नाम नदी तदुपलक्षितो जनपदोऽप्युल्लुका । उल्लुकानद्याश्वकस्पिस्तीरे धूलिपाकारावृतनगरविशेषरूपं खेटस्थानमासीत् , द्वितीये तूल्लुकातीरं नाम नगरम् । अन्ये त्वाहुः- एतदेवोल्लुकातीरं धूलिपाकारातत्वात् खेटमुच्यते । तत्र च महागिरिशिष्यो धनगुप्तो नाम। अस्यापि शिष्य आर्यगङ्गो नामाचार्यः । अयं च नद्याः पूर्वतटे, तदाचार्यस्त्वपरतटे । ततोऽन्यदा शरत्समये मूरिवन्दनार्थ गच्छन् गङ्गो नदीमुत्तरति । स च खल्वाटः । ततस्तस्योपरिष्टादुष्णेन दह्यते खल्ली । अधस्तात्तु नद्याः शीतलजलेन शैत्यमुत्पद्यते । ततोऽत्रान्तरे कथमपि मिथ्यात्वमोहनीयोदयादसौ चिन्तितवान्- अहो ! सिद्धान्ते युगपत्क्रियाद्यानुभवः किल निषिद्धः, अहं त्वेकस्मिन्नेव समये शैत्यमाष्ण्यं च वेदयामि, अतोऽनुभवविरुद्धत्वाद् नेदमागमोक्तं शोभनमाभाति । इति विचिन्त्य गुरुभ्यो निवेदयामास । ततस्तैवक्ष्यमाणयुक्तिभिः प्रज्ञापितोऽसौ । यदाच खाग्रहग्रस्तबुद्धिवाद्न किश्चित् प्रतिपद्यते । तदोद्धाव्य बाह्यः कृतो विहरन् राजगृहनगरमागतः। तत्र च महातपस्तीरप्रभवनाम्नि प्रश्रवणे मणिनागनाम्नो नागस्य चैत्यमस्ति । तत्समीपे च स्थितो गङ्गः पर्षत्पुरस्सरं युगपत्क्रियाद्वयवेदनं प्ररूषयति स्म । तच्च श्रत्वा प्रकुपितो मणिनागस्तमवादी- अरे दुष्टशिक्षक ! किमेवं प्रज्ञापयसि, यतोऽत्रैव प्रदेशे समवसृतेन श्रीमद्वर्धमानस्वामिनकस्मिन् समये एकस्या एव क्रियाया वेदनं प्ररूपितम् । तच्चेह स्थितेन मयापि श्रुतम् । तत् किं ततोऽपि लष्टतरः प्ररूपको भवान् , येनैवं युगपत् क्रियायवेदन प्ररूपयसि । तत्परित्यजता कूटप्ररूपणाम् , अन्यथा नाशयिष्यामि त्वाम् । इत्यादितदुदितभयवाक्यैयुक्तिवचनैश्च प्रबुद्धोऽसौ मिथ्यादुष्कृतं दचा गुरुमूलं गत्वा प्रतिक्रान्त इति ॥ २४२५ ॥
अत्र भाष्यम्नेइमुल्लुगमुत्तरओ सरए सीयजलमजगंगस्स । सूराभितत्तसिरसो सीउसिणवेयणोभयओ ॥ २४२६ ॥ लग्गोऽयमसग्गाहो जुगवं उभयकिरिओवओगो त्ति। दो वि समयमेव य सीउसिणवेयणाओ मे ॥२४२७॥ गतार्थे, नवरमार्यगङ्गस्य लग्नोऽयमसद्ग्रहो यदुत- युगपस्क्रियाद्यसंवेदनोपयोगोऽस्ति, यद् यस्माद् मे मम द्वे अपि शीतोष्ण
, नरखेटजनपदोल्लुके महागिरिधनगुप्त आर्यगङ्गश्च । किये वे राजगृहे महातपस्तीरमणिनागः ॥ २४२५ ॥ १ नदीमुल्लुकामुत्तरतः शरदि शीतजलामार्षगङ्गस्य । सूराभितप्तशिरसः शीतोष्णवेदनोभयतः ॥ २५२६ ॥ लमोऽयमसद्ग्रहो युगपदुभयक्रियोपयोग इति । यद् द्वे अपि समकमेव च शीतोष्णवेदने मे ।। २४२७ ।।
मरूपयास ? मपितम् । तचेह स्थितेन मयामापयसि, यतोऽत्रैव मदेश
प्रवास
॥९२७॥
For Personal and Price Use Only