________________
विशेषा ०
॥ ९७३ ॥
Jain Education Internat
वेदने समकालमेव स्तः । प्रयोगश्चात्र- युगपदुभयक्रियासंवेदनमस्ति, अनुभवसिद्धत्वात् मम पाद- शिरोगतशीतोष्णक्रिया संवेदनवदिति ।। २४२६ ।। २४२७ ॥
एवं गङ्गेनोक्ते किमभूत् १ इत्याह
तर मजोगेणायं गुरुणाऽभिहिओ तुमं न लक्खेसि । समयाइसुहुमयाओ मणोऽतिचलसुहुमयाओ य ॥२४२८॥ गुरुणाऽभिहितोऽसौ - हन्त ! योऽयं युगपत्क्रियाद्वयानुभवस्त्वया गीयते स तरतमयोगेन क्रमेणैव भवतः संपद्यते न युगपत्, परं सदपि क्रमभवनमस्य त्वं न लक्षयसि, समया-ऽऽवलिकादेः कालस्य सूक्ष्मत्वात् तथा मनसश्चातिचलत्वेनातिसूक्ष्मत्वेन चाशुसंचारित्वादिति । तस्मात् 'अनुभवसिद्धत्वात्' इत्यसिद्धोऽयं हेतुरिति ।। २४२८ ।
हेत्वसिद्धिमेव भावयति -
हुमासुचरं चित्तं इंदियदेसेण जेण जं कालं । संबज्झइ तं तम्मत्तनाणहेउ ति नो तेण ॥२४२९ ॥
उवलभए किरियाओ जुगवं दो दूरभिण्णदेसाओ । पाय सिरोगयसीउन्हवेयणाणुभवरूवाओ ॥२४३०॥ सूक्ष्ममाशुचरं च चित्तं मनः, तत्र सूक्ष्मं सूक्ष्मातीन्द्रियपुद्गलस्कन्धनिर्वृत्तत्वात्, आशुचरं तु शीघ्रसंचरणशीलत्वात् । ततश्च तदेवंभूतं चित्तं येन येन कायाद्याकारस्पर्शनादिद्रव्येन्द्रियसंबन्धिना देशेन सह यस्मिन् काले संबध्यते संयुज्यते तस्मिन् काले तस्य तन्माज्ञानहेतुर्भवति येन स्पर्शनादिद्रव्येन्द्रियदेशेन संबध्यते तज्जन्यस्यैव शीतादिविषयस्योष्णादिविषयस्य वैकतरविज्ञानस्य हेतुर्जायते, न तु येनेन्द्रियदेशेन सह तत्काले स्वयं तद् न संबद्धं तज्जन्यज्ञानस्यापि हेतुरित्यर्थः । इतिशब्दो वाक्य समाप्त्यर्थः । येनैवम् तेन कारणेन नो नैव दुरभिन्नदेशे द्वे क्रिये कोऽपि युगपदुपलभते संवेदयत इति संबन्धः । कथंभूते द्वे क्रिये ! इत्याह- पाद- शिरोगतशीतोवेदनयोरनुभवनमनुभवस्तद्रूपे तदात्मिके । अत्र प्रयोगः- इह पाद- शिरोगतशीतोष्णवेदने युगपद् न कोऽपि संवेदयते, भिन्नदेशस्वात्, विन्ध्य - हिमवच्छिखर स्पर्शन क्रियाद्वयवदिति 'अनुभवसिद्धत्वात्' इत्यसिद्धोऽयं हेतुरिति ।। २४२९ ।। २४३० ॥
१ तरतमयोगेनायं गुरुणाऽभिहितस्त्वं न लक्षयसि । समयादिसूक्ष्मतातो मनोऽतिचलसूक्ष्मतातश्च ॥ २४२८ ॥
२ सूक्ष्माशुचरं चित्तमिन्द्रियदेशेन येन यस्मिन् काले संबध्यते तत् तन्मात्रज्ञानहेतुरिति नो तेन ॥ २४२९ ॥ उपलभते क्रिये युगपद् द्वे दूर-भिन्नदेशात् । पाद- शिरोगतशीतोष्णवेदनानुभवरूपे ॥ २४३० ॥
For Personal and Private Use Only
बृहद्वचिः ।
॥ ९७३ ॥
www.jainelibrary.org