________________
विशेषा
बृहद्वति।
॥९७०॥
द्वीप-समुद्रादिरूपतया त्रिभुवनमिव समस्तमपि वस्तु नित्या-ऽनित्यादिरूपतया विचित्रपरिणाममनेकस्वरूपं भगवतामभिमतम् । अतोऽस्यैकान्तविनश्वरलक्षणैकरूपाभ्युपगमो मिथ्यात्वमेवेति ।। २४१६ ।।
अपिच,
सुह-दुक्ख-बंध-मुक्खा उभयनयमयाणुवट्टिणो जुत्ता । एगयरपरिच्चाए सव्वव्ववहारवोच्छित्ती ॥ २४१७ ॥ भाविताथैवेति ।। २४१७॥ किमित्येकतरपरित्यागे सुखादिव्यवहाराभावः ? इत्याशङक्य प्रमाणयन्नाह--
ने सुहाइ पज्जयमए नासाओ सव्वहा मयस्सेव । न य दवट्ठियपक्खे निच्चत्तणओ नभस्सेव ॥२४१८॥
एकस्मिन्नेव पर्यायनयमतेऽङ्गीक्रियमाणे न सुखादि जगतो घटत इति प्रतिज्ञा, सुख-दुःख-बन्ध-मोक्षादयो न घटन्त इत्यर्थः । उत्पत्त्यनन्तरं सर्वथा नाशादिति हेतुः । मृतस्येवेति दृष्टान्तः । न च द्रव्यार्थिकनयपक्षे केवले समाश्रीयमाणे सुखादि घटते, एकान्तनित्यत्वेनाविचलितरूपत्वात् , नभस इवेति । तस्माद् द्रव्य-पर्यायोभयपक्ष एवं सर्वमिदमुपपद्यत इत्ययमेव ग्राह्यः, केवलैकनयपक्षस्तु दोषलक्षकक्षीकृतत्वात् त्याज्य एवेति ॥ २४१८ ॥
पुनरप्यश्वमित्रमनुकम्पमानाः स्थविरास्तच्छिक्षामाहुः
जइ जिणमय पमाणं तो मा दव्वठियं परिचयसु । सक्करस व होइ जओ तन्नासे सब्बनासो त्ति ॥२४१९॥
पूर्वदर्शितसूत्रापालकभावार्थमजामन्नपि विभ्रमितचित्ततया तत्मामाण्यं पूत्कुर्वाणः किल जिनवचनप्रामाण्यावलम्बिनमात्मानं मन्यते भवान् । तद् यदि हन्त ! सत्यमेव जिनमतं भवतः प्रमाणम्, ततः केवलपर्यायवादितया जिनमताभिमतमपि द्रव्यास्तिकनयं मा परित्याक्षी:- द्रव्यास्तित्वं मा प्रतिषेधयेत्यर्थः, यतो यस्मात् शाक्यस्य बौद्धस्येव तव तन्नाशे द्रव्यस्य सर्वथा विनाशे स्वीक्रियमाणे 'सव्वनासो ति सर्वस्यापि तृप्ति-श्रमादेर्बन्ध-मोक्षादेश्च व्यवहारस्य नाशो भवति विलोपः प्रामोतीत्यर्थः ।। २४१९ ।।
PRESS
, सुख-दुःख-बन्ध-मोक्षा उभयनयमतानुवर्तिनो युक्ताः । एकतरपरित्यागे सर्वव्यवहारल्युपिछत्तिः ॥ २४१७॥ २म सुखादि पर्यवमते नाशात् सर्वथा मृतस्येव । न च द्रष्यार्थिकपक्षे नित्यत्वतो नभस इव ॥ २४१८॥ ३ यदि जिनमतं प्रमाणे सतो मा दण्याधिकं परित्याक्षीः । शाक्यस्येव भवति यतस्तमाशे सर्वनाश इति ॥ २४॥९॥
Jan Education internati
For Personal and Price Use Only
aniwww.jaineibrary.org