________________
घड
विशेषा. ॥९४४॥
अहवा न डज्झमाणं दड्ढे दाहकिरियासमत्तीए । किरियाऽभावे दड्ढं जइ दड्ढं किं न तेलुकं ॥२३२८॥
अथवैवं ब्रूषे- दद्यमानं न दग्धम् , किन्तु दाहक्रियासमाप्तौ दग्धम् । नन्वेवं सति दाहक्रियाऽभावे दग्धमित्युक्तं भवति । एतच्चायुक्तम् , यतो यदि दाहक्रियाऽभावे दग्धम् , तर्हि त्रैलोक्यमपि किं न 'दग्धम्' इत्यत्रापि संवध्यते, यथा वस्ने तथा त्रैलोक्येऽपि दाहक्रियाऽभावस्य तुल्यत्वादिति ॥ २३२८ ॥
ततः किमिह स्थितम् ? इत्याह-- उज्जुसुयनयमयाओ वीरजिणिंदवयणावलंबीणं । जुज्जेज्ज डज्झमाणं दड्ढे बोत्तुं न तुज्झ त्ति ॥२३२९॥ उत्तानार्था ।। २३२९ ॥ ननु दद्यमानदग्धवादिनोऽप्यश्चलमात्रदेशे दह्यमाने संघाटी कथं 'दग्धा' इति व्यपदिश्यते ? इत्याह
समए समए जो जो देसोऽगणिभावमेइ डज्झमाणस्स । तं तम्मि डज्झमाणं दह्र पि तमेव तत्थेव ॥ २३३०॥
यो यो दाह्यस्य पटादेर्देशस्तन्त्वादिः समये समयेऽग्निभावमेति-दह्यत इत्यर्थः, तत्तदेशरूपं वस्तु तस्मिन् समये दह्यमानं मण्यते, तथा दग्धमपि तदेव वस्तु तस्मिन्नेव समये भण्यते । अतो दह्यमानमेव दग्धम् । यत्तु देशमात्रेऽपि दग्धे संघाटी मे 'दग्धा' इति त्वं वदसि, तत् संघाव्येकदेशेऽपि संघाटीशब्दोपचारादिति मन्तव्यमिति ।। २३३० ।।
ततः किमिह स्थितम् ? इत्याह
'नियमेण डज्झमाणं दड्ढं दड्ढे तु होइ भयणिज्जं । किंचिदिह डज्झमाणं उवरयदाहं च हुज्जाहि॥२३३१॥ व्याख्या मागुक्तानुसारेण कार्येति ॥ २३३१ ॥ इत्यादिढोक्तयुक्तिभिः संबुद्धा प्रियदर्शना, शेषसाधवश्च 'आर्य ! इच्छामः सद्भूतमिदं त्वदीयसंबोधनम्' इत्येवं ढङ्काभिमुखमा
, अथवा न दामानं दग्ध दाहक्रियासमाप्तौ । क्रियाऽभावे दग्धं यदि दग्धं कि न त्रैलोक्यम् ॥ २३२८ ॥ २ जुसूत्रनयमताद् वीरजिनेन्द्रवचनावलम्बिनाम् । युज्यते दह्यमानं दग्धं वक्तुं न तवेति ॥ २३२९ ॥ २ समये समये यो यो देशोऽग्निभावमेति दद्यमानस्य । तत् तस्मिन् दह्यमानं दग्धमपि तदेव तत्रैव ॥ २३३० ॥ . नियमेन दह्यमानं दग्धं दग्धं तु भवति भजनीयम् । किञ्चिदिह दझमानमुपरतदाहं च भवेत् ॥ २३३१ ।।
STOR
॥९४४॥