________________
विशेषा०
॥९४२॥
RE
आस्तीर्यमाणसंस्तारकस्य यद् यावन्मात्र नभोदेशे यत्र यत्र समये 'अत्थुम्बई' आस्तीर्यते तत् तावन्मानं तस्मिन् नभादेशे तत्र तत्र समय आस्तीर्णमेव भवति, आस्तीर्यमाणमपि च तदेवोच्यते । इदमुक्तं भवति- सर्वोऽपि संस्तारक आस्तीर्यमाणो नास्तीर्ण इति 'क्रियमाणं कृतम्' इत्यादि महावीरवचनं व्यलीकमेव जमालिर्मन्यते । एतच्चायुक्तम् , भगवद्गचनाभिप्रायापरिज्ञानात् । सर्वनयात्मकं हि भगवद्वचनम् । ततश्च ‘क्रियमाणमकृतम्' इत्यपि भगवान् कथश्चिद् व्यवहारनयमतेन मन्यत एव, परं "चलमाणे चलिए, उईरिजमाणे उरिए" इत्यादिसूत्राणि निश्चयनयमतेनैव प्रवृत्तानि । तन्मतेन च क्रियमाण संस्तृतम् , इत्यादि सर्वमुपपद्यत एव । निश्चयो हि मन्यते- प्रथमसमयादेव घटः कर्तुं नारब्धः, किन्तु मृदानयन-मर्दनादीनि प्रतिसमयं परापरकाण्यारभ्यन्ते, तेषां च मध्ये यद् यत्र समये प्रारभ्यते तत् तत्रैव निष्पद्यते, कार्यकाल-निष्ठाकालयोरेकत्वात् , अन्यथा पूर्वोक्तदोषप्रसङ्गात् । ततः क्रियमाणं कृतमेव भवति । एवं प्रस्तुतः संस्तारकोऽपि नाद्यसमयात् सर्वोऽपि संस्तरीतुमारभ्यते, किन्त्वपरापरे तदवयवाः प्रतिसमयमास्तीर्यन्ते, तेषां च मध्ये यो यत्र समयेऽवयवः संस्तरीतुमारभ्यते, स तत्रैवास्तीयते, परिपूर्णस्तु संस्तारकश्चरमसमय एव संस्तरीतुमारभ्यते तत्रैव च निष्पद्यत इति संस्तार्यमाणं संस्तीर्णमेव भवतीति ।। २३२३ ॥
दीसइ दीहो य जओ' इत्यत्राह
बहुवत्थत्तरणविभिण्णदेसकिरियाइकजकोडीणं । मण्णास दीहं कालं जइ, संथारस्स किं तस्स ? ॥२३२२॥
यदि नाम बहुवस्त्रास्तरणविभिन्नदेशक्रियादिकार्यकोटीनां संबन्धिनं दीर्घकालं मन्यसे जानासि त्वम् , ततः संस्तारकस्य तस्य किमायातम् ? इत्यक्षरघटना । विभिन्नो देशो यासां ता विभिन्नदेशास्ताश्च ताः क्रियाश्च विभिन्न देशक्रियाः, वस्त्रस्योपलक्षणत्वात् कम्बलानां चास्तरणं वस्त्र-कम्बलास्तरणं तस्य विभिन्नदेशक्रिया वस्त्रकम्बलास्तरणविभिन्नदेशक्रियाः, तदादयश्च ताः कार्यकोटयश्च तास्तथा,बह्वयश्च ता वस्त्र-कम्बलास्तरणविभिन्न देशक्रियादिकार्यकोटयश्च बहुवस्स्रकम्बलास्तरणविभिन्न देशक्रियादिकार्यकोटय इति समासस्तासामिति । आदिशब्दः स्वगतानेकभेदख्यापकः । कार्याणां च कोटिसंख्यत्वमिहापि पूर्ववद् भावनीयमिति ॥२३२२ ।। । ननु यदि पूर्वमपरापराणि कार्याणि निष्पद्यन्ते, संस्तारकस्तु पर्यन्तसमय एवारभ्यते, निष्पद्यते च, कार्य क्रियाकाल-निष्ठाकालयोरभेदात । तर्हि कथं संस्तारकस्यैव स दीर्घः क्रियाकालो मयाऽनुभूयते ? इत्याह--
• चल्यमाने चलितम्, उदीयमाण उदीरितम् । २ गाथा २३११ । ३ बहुवखारतरणविभिनदेशक्रियादिकार्यकोटीनाम् । मन्यसे दीर्घ कालं यदि, संस्तारस्य किं तस्य ॥ २६२२ ॥
॥९४२॥
Jain Education Internats
For Personal and Price Use Only
RAww.jainmibrary.org