SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Rece वृहद्दत्तिः । विशेषा ॥९२८॥ अपुहत्तमेगभावो सुत्ते सुत्ते सवित्थरं जत्थ । भण्णंतणुओगा चरण-धम्म-संखाण-दव्वाणं ॥२२८१॥ तत्थेव नयाणं पि हु पइवत्थु वित्थरेण सबसि । देसिति समोयारं गुरवो, भयणा पुहत्तम्मि ॥२२८२॥ एगो च्चिय देसिज्जइ जत्थणुओगो न सेसआ तिण्णि । सन्ता वि तं पुहत्तं तत्थ नया पुरिसमासज्ज ॥२२८३॥ चतस्रोऽपि गतार्थाः, नवरं प्रथमगाथोत्तरार्धे यद् यस्मात् सन्तोऽपि प्रतिपदं न भण्यन्ते । अपृथक्त्वं किमुच्यते ? इत्याहएकभावः । एकभावमेव विवृणोति- 'सुत्ने सुत्ते इत्यादि' यत्र मूत्रे सूत्रेऽनुयोगा व्याख्यानानि भण्यन्ते। केषाम् ? इत्याह- 'चरणेत्यादि। संख्यानं गणितमुच्यते । ततश्चेदमत्र हृदयम्- यत्रैकैकस्मिन् सूत्रे चरणकरणानुयोगः, धर्मकथानुयोगः, गणितानुयोगः, द्रव्यानुयोगश्च सविस्तरं व्याख्यायते, न तु वक्ष्यमाणेन पार्थक्येन 'तदपृथक्त्वम्' इति शेषः । पृथक्त्वं तु किमुच्यते ? इत्याह- 'एगो चियेत्यादि' इदं च 'कालियसुर्य च' इत्यादिवक्ष्यमाणगाथायां व्यक्तीभविष्यतीति ॥ २२८० ॥ २२८१ ॥ २२८२ ।। २२८३ ।। आह-कियन्तं कालं यावत् पुनरिदं पृथक्त्वमासीत् ? कुतो वा पुरुषविशेषादारभ्य पृथक्त्वमभूत् ? इत्याह जावं ति अजवइरा अपुहत्तं कालियाणुओगस्स । तेणारेण पुहत्तं कालियसुय दिठिवाए य ॥ २२८४ ॥ यावदार्यवैरा गुरवो महामतयस्तावत् कालिकश्रुतानुयोगस्यापृथक्त्वमासीत् , तदा व्याख्यातृणां श्रोतृणां च तीक्ष्णप्रज्ञत्वात् । कालिकग्रहणं च प्राधान्यख्यापनार्थम् , अन्यथोत्कालिकेऽपि सर्वत्र प्रतिसूत्रं चत्वारोऽप्यनुयोगास्तदानीमासन्नेवेति । तदाऽऽरत आर्यरक्षितेभ्यः समारभ्य कालिकश्रुते दृष्टिवादे चानुयोगानां पृथक्त्वमभूत् ॥ इति नियुक्तिगाथार्थः ।। २२८४ ।। भाष्यम् अपुहत्तमासि वइरा जावं ति पुहत्तमारओऽभिहिए । के ते आसि कया वा पसंगओ तेसिमुप्पपत्ती॥२२८५॥ अपृथक्वत्वमेकभावः सूत्रे सूत्रे सविस्तरं यत्र । भण्यन्तेऽनुयोगाश्चरण धर्म-संख्यान-द्रव्याणाम् ॥२२८१॥ तत्रैव नयानामपि खलु प्रतिवस्तु विस्तरेण सर्वेषाम् । दिशान्ति समवतारं गुरवो, भजना पृथक्त्वे ॥२२८२॥ एक एव दिश्यते यत्रानुयोगो न शेषकास्त्रयः । सन्तोऽपि तत् पृथक्त्वं तन्त्र नयाः पुरुषमासाद्य ॥ २२८३ ।। २ यावदित्यायवैरा अपृथक्वं कालिकानुयोगस्य । तेनाऽऽर्यतः पृथक्त्वं कालिकथुते रष्टिवादे च ॥ २२८४ ॥ ३ अपृथक्त्वमासीद् वैराद् यावदिति पृथक्त्वमार्यतोऽभिहिते । के त आसन् कदा वा प्रसङ्गतस्तेषामुत्पत्तिः ॥ २२८५॥ A९२८॥ Jan Education Intera For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy