SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहदत्तिः । ॥९२७॥ प विमलमति श्रोतारं पुनरासाद्य नयविशारदः मूरिः समनुज्ञातमाद्यनयत्रयं शेषान् वा नयान् ब्रूयात् ।। इति नियुक्तिगाथार्थः ।।२२७७|| अत्र भाष्यम्-- भासिज्ज वित्थरेण वि नयमयपरिणामणासमत्थम्मि । तदसत्ते परिकम्मणमेगनएणं पि वा कुज्जा ॥२२७८॥ सुगमा, नवरं वाशब्दाद् नयद्वयेन त्रयेण वा शिष्यमतिपरिकर्मी कुर्यात् , तथाविधमतिमान्ये तु नैकमपि नयं भाषेत, इत्येतदपि द्रष्टव्यम् ॥ २२७८ ।। ॥ तदेवमुक्तं नयहारम् ॥ अथ समवतारद्वारमुच्यते । क पां नयानां समवतारः १ क वाऽनवतारः ? इति संशयापनोदार्थमाह मूढनइयं सुयं कालियं तु नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥२२७९॥ मूढा अविभागस्था नया यत्र तद् मूढनयं तदेव मूढनयिकम् । किं तत् ? । कालिकं श्रुतं- काले प्रथम चरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठ्यत इति कालिकम् , तत्र न नयाः समवतरन्ति- अत्र प्रतिपदं न भण्यन्त इत्यर्थः । क पुनस्तीमीषां समवतार आसीत् , कदा चायमनवतारस्तेषामभूत् ? इत्याह- 'अपुहत्ते इत्यादि । चरणकरणानुयोग-धर्मकथानुयोग-गणितानुयोग-द्रव्यानुयोगानामपृथग्भावोऽपृथक्त्वं प्रतिमूत्रमविभागेन वक्ष्यमाणेन विभागाभावेन प्रवर्तनं प्ररूपणमित्यर्थस्तस्मिन्नपृथक्त्वे नयानां विस्तरेणासीत् समवतारः । चरणकरणायनुयोगानां पुनर्वक्ष्यमाणलक्ष्णे पृथक्त्वे नास्ति समवतारो नयानाम् । भवति वा कचित् पुरुषापेक्षोऽसौ ।। इति नियुक्तिगाथार्थः ॥२२७९॥ भाष्यकारव्याख्या अविभागत्था मूढा नय त्ति मूढनइयं सुयं तेण । न समोयरंति संता पइपयं जं न भण्णंति ॥२२८०॥ SEKSEE काम र ASEAST , भाषेत विस्तरेणापि नयमतपरिणामनासमर्थे । तदसत्त्वे परिकर्मणामेकनयेनापि वा कुर्यात् ॥ २२७४ ॥ २ मूठनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥२२७९॥ १ अविभागस्था मूढा नया इति मूढनयिकं श्रुतं तेन । न समवतरन्ति सन्तः प्रतिपदं वद् न भष्यन्ते ॥२२८०॥ ॥९२७॥ an Educatiemetre For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy