________________
BalOTO
विशेषा.
॥९०४॥
तम्मत्तमिह विसेसो सामन्नं पिव पमेयभावाओ । सव्वत्थ सम्मईओ वभिचाराभावओ वावि ॥२२०९॥
तन्मात्रमिह विशेषा इति प्रतिज्ञा, प्रमेयत्वात् , सामान्यवत् । अथवा, अन्यो हेतुः- सर्वत्र सन्मतेर्व्यभिचाराभावात्- सर्वत्र सन्मतिप्रवृत्तेरित्यर्थ इति ॥ २२०९॥
प्रकारान्तरेणापि विशेषाणां सामान्यरूपता साधयितुमाहचुओ वणस्सई च्चिय मूलाइगुणो त्ति तस्समूहो व्व । गुम्मादओ वि एवं सव्वे न वणस्सइविसिट्ठा ॥२२१०॥
चूतो वनस्पतिः सामान्यरूप एव, मूलादिगुणत्वात् , तत्समूहवत्- चूतादिवृक्षसमूहवत् । गुल्मो लतासमूहः, तदादयोऽपि सर्वे वृक्षविशेषा वनस्पतेरविशिष्टा एव, इति सामान्यमेवास्ति, न विशेषा इति ।। २२१० ॥
किञ्च,
TITTIETTA
सामन्नाओ विसेसोऽन्नोऽणन्नो व नत्थि जइ अन्नो । निस्सामन्नत्ताओऽणन्नो सामन्नमत्तं सो ॥ २२११॥
सामान्याद् विशेषोऽन्यः, अनन्यो वा ? । यद्यन्यः, तर्हि नास्त्यसौ, सामान्यबहिर्भूतत्वात् , खरविषाणवत् । अथानन्यः, तर्हि सामान्यमानमेवासी, तत्स्वरूपवदिति । तदेवमुक्तः संग्रहः ।। २२११ ।।
अथ व्यवहारनयमाहवैवहरणं ववहरए स तेण व वहीरए व सामन्नं । ववहारपरो व जओ विसेसओ तेण ववहारो॥ २२१२ ।।
व्यवहरणं व्यवहारः, व्यवहरति स इति वा व्यवहारः, विशेषतोऽवहियते निराक्रियते सामान्यं तेनेति व्यवहारः, लोको व्यवहारपरो वा विशेषतो यस्मात् तेन व्यवहार इति । अयं च न यदुक्तमूक्तिको प्रतिपद्यते ॥ २२१२ ।। 'वेच्चइ विणिच्छियत्थं ववहारो सव्वदम्बेसु' अस्य व्याख्यामाह
, तन्मात्रमिह विशेषः सामान्यामव प्रमेयभावात् । सर्वत्र सन्मतेर्यभिचाराभावतो वापि ॥ २२०९ ॥ २ चूतो वनस्पतिरेव मूलादिगुण इति तत्समूह इव । गुल्मादयोऽप्येवं सर्वे न वनस्पतिविशिष्टाः ॥ २२१०॥ ३ सामान्या विशेषोऽन्योऽनन्यो वा नास्ति यचन्यः । निःसामान्यत्वादनम्यः सामान्यमानं सः ॥ २२११॥ ४ व्यवहरणं व्यवहरति स तेन वाऽवह्रियते वा सामान्यम् । व्यवहारपरो वा यतो विशेषतस्तेन व्यवहारः ॥ २२१२॥ ५ गाथा २१८३ ।
4॥९०४॥
For Personal and
Use Only