________________
HAITARANG
विशेषा०
बृहदत्तिः ।
॥९०३॥
सर्वविशेषानन्यम् । अतः क्रोडीकृतसविशेषं सामान्य मेव सर्वैः प्रकारैः संग्रहवचनस्याभिधेयतया भणितमिति ।। २२०४ ॥२२०५॥
कथंभूतं पुनः सामान्य संग्रहो मन्यते ? विशेषांस्तु कुतोऽसौ नाभ्युपगच्छति ? इति दर्शनार्थमाह
एंगं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व ॥ २२०६ ॥
एक सामान्यम् , सर्वत्र तस्यैव भावात् , विशेषाणां चाभावात् , तथा, नित्यं सामान्यम् , अविनाशात् ; तथा, निरवयवम् , अदेशत्वात अक्रियम् , देशान्तरगमनाभावात् । सर्वगतं च सामान्यम् , अक्रियत्वादिति । विशेषास्तु न सन्ति, निःसामान्यत्वात्। सामान्यव्यतिरेकिणां तेषामभावात् । इह यत् सामान्यातिरिक्तं तद् नास्ति, यथा खपुष्पमिति ॥ २००६ ।।
एतदेव समर्थयति
सैदिति भणियम्मि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी । तो सव्वं तम्मत्तं नत्थि तदत्थंतरं किंचि ॥२२०७॥
यस्मात् 'सत्' इत्येवं भणिते सर्वत्र भुवनत्रयान्तर्गते वस्तुनि बुद्धिरनुप्रवर्तते प्रधावति । न हि तत् किमपि वस्त्वस्ति यत् 'सत्' इत्युक्ते झगिति बुद्धौ न प्रतिभासते । ततस्तस्वात् सर्वं तन्मात्रमेव सत्तामात्रमेव, न तदर्थान्तरं किञ्चिदस्ति यत् विशेषतया कल्पेतेति ॥ २२०७॥
सत्तामात्रत्वमेव सर्वभावानां भावयन्नाह
कुंभो भावाणन्नो जइ तो भावो अहन्नहाऽभावो । एवं पडादओ वि हु भावाणन्न त्ति तम्मत्तं ॥२२०८॥
कुम्भो घटः स भावात् सत्तातोऽन्यः, अनन्यो वा । यद्यनन्योऽभिन्नः, तर्हि भावः सत्तामात्रमेवासौ। 'अहनह ति' अथान्यथा- भावाद् भिन्नोऽभ्युपगम्यत इत्यर्थः, ती भावोऽसनेवासी, भावादन्यत्वात् , खरविषाणवदिति। एवं पटादयोऽपि प्रत्येक वाच्याः। ततस्तेऽपि द्वितीयपक्षेऽसत्त्वप्रसङ्गाद् भावादनन्येऽभ्युपगन्तव्याः, इति सर्वमेव घट-पटादिकं वस्तु तन्मात्र सत्तामात्रमेवेति।।२२०८॥ ___ अथवाऽयमेवार्थोऽन्यथाऽभिधीयते । कथम् ? इत्याह
1 एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निःसामान्यत्वाद् नास्ति विशेषः खपुष्पमिव ।। २२०६ ॥ २ सदिति भणिते यस्मात् सर्वत्रानुप्रवर्तते बुद्धिः । ततः सर्वं तन्मात्रं नास्ति तदर्धान्तरं किञ्चित् ॥ २२०७ ॥ ३ कुम्भो भावानन्यो यदि ततो भावोऽधान्यथाऽभावः । एवं पटादयोऽपि खलु भावानन्य इति तन्मात्रम् ॥ २२०८॥
९०३।।
Jain Educationa.Internal
For Personal and Price Use Only
B
iww.jainabrary.org