SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ह विशेषाः ॥४९७|| ताऽहं तावत् , ततो धन्यास्ते ग्राम-नगरादिप्रदेशा येषु भगवान् महावीरो विचरति धन्यश्च स एव लोको यस्तत्पादरजोरञ्जितभालतल: सततं तदन्तिकोपासीनस्तद्वचःपीयूषवृष्टिभिर्निवाप्यमानः कालं निर्वाहयति तद् यद्यत्र कथमपि भगवान् समागच्छति, ततोऽवलोकितातिदुरन्तसंसारवरस्याऽहमप्येतत् करोमि, प्रव्रज्यां चाऽभ्युपगच्छामि । एतच्च तदाकूतं विज्ञाय समागतस्तत्र भगवान् । मृगापतिश्चण्डपद्योतश्च तत्र वन्दनार्थमुपगतः । धर्मकथावसाने च मृगापत्या व्रतग्रहणार्थ चण्डप्रद्योतो मुत्कलापितः । तेनापि भगवल्लज्जया तस्याश्च सदेव-मा-ऽसुरायाः परिषदो लज्जमानेन सा मुत्कलिता, प्रव्रजिता च । ___ तदेवं यथोज्जयिन्याः पुरुषपरम्परया कौशाम्ब्यामिष्टकाः समायाताः, तथेयमपि नियुक्तिराचार्य परम्परयाऽत्र समायाता, केवलमिष्टकोदाहरणे द्रव्यपरम्परका, प्रस्तुतस्तु भावपरम्परक इति ॥ १०८२ ॥ अत्र प्रेरकः पाहदेवस्स परंपरओ जुत्तो भावसुयसंकमो कत्तो ? । सद्दो वि नागओऽयं स एव जिण-गणहरुच्चरिओ ॥१०८३॥ ननु द्रव्यस्येष्टकादेः पुरुषपारम्पर्येणागमनरूपः परम्परको युक्तः, नियुक्तेस्तु भावश्रुतरूपायाः संक्रमः कुतः ?- न घटत एवेत्यर्थः, भावश्रुतस्य जीवपर्यायत्वात् , पर्यायस्य च वस्त्वन्तरसंक्रमायोगात् । अथ ब्रूयात्- भावश्रुतकारणस्य शब्दात्मकस्य द्रव्यश्रुतस्येत्थमागमनसंभवाद् भावश्रुतेऽप्युपचारादागतव्यपदेशः क्रियते । एतदप्ययुक्तम् , यतः शब्दोऽपि य आदौ जिन-गणधरैरुच्चरितः, न स एवायमत्राऽऽयातः, तस्योचारणानन्तरमेवोपरमात् । इति कुतस्तमप्याश्रित्याऽऽगतव्यपदेशः' इति ॥ १०८३ ।। अत्र प्रतिविधानमाह-- आगयमिवागयं तं तत्तो जत्तो समुन्भवो जस्स । स परंपरओ य जओ तमागयमिओ तदुवयारो ॥१०८४॥ 'जत्तो ति यतो यस्माद् रूपकादेर्घटादेर्वा सकाशाद् यस्य भोजनादे रूपादिविज्ञानस्य वा समुद्भव उत्पत्तिः 'तं ति' तद् भोजनादिकं रूपादिज्ञानं वा वस्तु 'तत्तो ति' ततो रूपकादेर्घटादेर्वा सकाशादागतमिवाऽऽगतमुच्यते, हिमवतः समागतगङ्गाप्रवाहस्येव १य्यस्य परम्परको युक्तो भावभुतसंक्रमः कुतः । शब्दोऽपि नागतोऽयं स एव जिन-गणधरोच्चरितः ॥ १०८३ ॥ B४९७॥ २ आगतमिवागतं तत् ततो यतः समुद्भवो यस्य । स परम्परातश्च यतस्तदागतमितस्तदुपचारः ॥ १०८४ ॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy