________________
सय
सूनुः स्वकुलमहासरःसरसिजायमानः शतानीको नाम राजा । तस्य च चेटकराजदुहिता श्रीमहावीरजिनक्रमकमलमधुकरी च भुवनातिविशेषा.
शायिरूपा मृगापति म पट्टमहादेवी । अन्यदा च शतानीकनरपतिना निजमनःकुविकल्पसंभावितालीकापराधेन स्वनगरीनिवासिन
स्तोषितसाकेतपुरप्रतिष्ठितसुरप्रियाभिधानयक्षावाप्तवरस्य निरपराधस्यैवैकस्य चित्रकरस्याऽङ्गुष्ठ-प्रदेशन्योर छेदितम् । ततस्तेन 'नि॥४९६॥ रर्थकमपमानितोऽहम्' इति गाढं प्रकुपितेनोपायं विमृश्य स्त्रीलोलत्वादतिबलिष्ठत्वाच्चोज्जयिनीनिवासिनश्चण्डप्रद्योतनरनाथस्य चित्रफलके
वरलब्धतया यथावस्थितं मृगापतिरूपं प्रदर्शितम् । ततस्तेनातिमदनपरवशेन तद्याचनाय शतानीकान्तिके दूतः प्रेषितः। स च शतानीE केन बाढपपमान्य निर्भत्र्य च विसर्जितः । ततस्तद्वचनाकर्णनप्रकुपितश्चण्डप्रद्योतो महाबलैरनेकभटकोटिखामिभिर्बद्धमुकुटैश्चतुर्दशभिर्भू
पालैः, महता स्वबलेन च सह प्रचलितः शतानीकस्योपरि । तं च तथा महाबलभरेणाऽऽगच्छन्तं श्रुत्वा, आत्मानं चाल्पसामग्रीकं ज्ञात्वा हृदयसङ्घट्टेन संजातातीसाररोगः पश्चत्वमुपगतः शतानीकः ।
ततो मृगापत्या चिन्तितम्- धिङ् मम रूपम् , यदर्थ मद्भर्तुस्तावद् मरणमागतम् । न चैतावता स्थास्यतीदम् , किन्तु भवकोटीष्वप्यतिदुरवापं श्रीमन्महावीरोपदेशतः सुचिरमनुपालितं मम शीलाभरणमपि विलुप्येत लग्नम् । तस्मादुपायमत्र चिन्तयामि, इति विमृश्यन्त्याः स्वबुद्धिलब्धसम्यगुपायया चण्डपद्योतस्यागच्छतो दूरस्थितस्यैव निरूपितः संमुखो दूतः। तेन च गत्वा मृगापतिवचनात् मोक्तं यथा- राजन् ! मृगापतिर्भाणयति यद्-भतेरि मृते स्वाधीनैव तावत् तवाहम् , परं किन्त्वद्यापि राजा बाल एवाऽयमुदायननामा मत्पुत्रः । ततो यद्यस्य सुस्थमकृत्वैवाऽहं त्वया सह गच्छामि, तदा सीमालराजादिभिरसौ परिभूयते । तस्मादिहैव दूरे स्थितोऽमुं सुस्थं कुरु । अथास्मिन्न कृतेऽप्येवमेवाऽर्वाग् मद्देशसीमायां समेष्यसि, तदा विषादिप्रयोगतो मरिष्यामि।
ततश्चण्डप्रयोतेनोक्तम्- पयि विद्यमाने न कोऽप्यस्य संमुखमप्यपलोकयिष्यति । ततो दुतेनोक्तम्- नैवम् , यत उच्छीर्षस्थितविषधरस्य योजनशतस्थायी वैद्यः किं कुरुते ?, तस्मात् सुस्थं कुरु । तेनोक्तम्- कथं पुनरेतत् संपद्यते । ततो दूतेनोक्तम्- उज्जयिनीनगरीसत्का बलिष्ठा इष्टका भवन्ति, ताभिः कौशाम्ब्याः प्राकारं कारय । उज्जयिन्याश्चातिदूरे कौशाम्बी, ततो गन्व्यादिवाहनैरिष्टका आनेतुं न शक्यन्ते । अतः पदातिपुरुषप्राचुर्याच्चण्डप्रद्योतेन तान् परम्परया व्यवस्थाप्य हस्ताद् हस्तसंचारेणष्टका आनाय्य कारितः कौशाम्ब्याः प्राकारः । ततो मृगापत्या प्रोक्तम्- धान्य-जल-तृणादिकं यथा नगरीमध्ये प्रचुरं भवति तथा कारय । ततो रागान्धत्वेन नष्टबुद्धिना तेन सर्व तत् तथैव कारितम् । ततो रोधकसज्जायां तस्यां नगर्या संजातायां व्यभिचरिता मृगापतिश्चण्डप्रद्योतस्य । ततो नगरीद्वारे समायातो विलक्षीभूतस्तिष्ठत्यसौ । ततो मृगापत्या चिन्तितम्- पुत्रराज्योपद्रवव्यतिकरे निश्चिन्ता संजा
॥४९६॥
PRATAR