________________
विशेषा ०
॥४९५॥
Jain Educationis Internatio
सामाइयनिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुत्रीए । १०८० ॥
सामायिकस्य निर्युक्तिः सामायिकनिर्युक्तिः, तां वक्ष्ये । कथंभूताम् १, उपदेशितामादौ तीर्थकर - गणधरलक्षणेन गुरुजनेन, पुनरुपदेशकालादारभ्याचार्यपारंपर्येणाऽऽयाताम् । कथम् ?, आनुपूर्व्या परिपाठ्या - जम्बूस्वामिनः प्रभवेनाऽऽनीता, ततुः शय्यंभवादिभि: । अथवा, जिन-गणधरेभ्य आरभ्याऽऽचार्यपरम्परागतां पश्चात् स्वकीयेनैवाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टाम् ।। इति निर्युतिगाथार्थः ।। १०८० ॥
'गुरुजणेणं' इत्यस्यार्थमाह भाष्यकारः -
जिण-गण हरगुरुदेसियमायरियपरंपरागयं तत्तो । आयं व परंपरया पच्छा सयगुरुजणोवहिं ॥१०८१ ॥ जिन - गणवरलक्षणेन गुरुजनेन देशितम्, ततो जम्बूस्वाम्याद्याचार्यपारम्पर्येणाऽऽगताम् अथवा जिन-गणधरेम्य आरभ्य जम्बूस्वाम्यायाचार्य परम्परयाऽऽगतां सतीं पश्चात् स्वकेनाऽऽत्मीयेनैव वर्तमानाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टां 'सामायिकोपोद्धा तनिर्युक्तिं वक्ष्यामि' इति प्रक्रम इति ।। १०८१ ॥
'पैरंपरएण' इत्यस्य भावार्थमाह
उज्जेणीओ नीया जहिट्टगाओ पुरा परंपरया । पुरिसेहिं को संबिं तहागएवं परंपरा | १०८२ ॥
ज्जयिन्या नगर्याः पुरा पूर्व चण्डप्रद्योतनरपतिपुरुषैर्वद्धपतिभिः परम्परया संचारयद्भिरिष्टकाः प्राकारकरणहेतोः कौशावीं नगरीं नीताः, तथैवेयमपि निर्युक्तिराचार्य परम्परयाऽऽगता । इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चाऽवश्यकवृत्तितो विस्तरतोऽवसेयम् । संक्षेपतस्तु प्रकृतोपयोगि किञ्चिदत्रापि लिख्यते ; तद्यथा
अत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्वदिग्वधूकण्ठ निवेशितमुक्ताफलकण्ठिकेव कौशाम्बी नाम नगरी । तत्र च सहस्रानीकराज -
१ सामायिक नियुक्तिं वक्ष्य उपदेशितां गुरुजनेन । आचार्य परम्परकेणाऽऽगतामानुपूर्व्या ॥ १०८० ॥ २ गाथा १०८० ।
३ जिन - गणधर गुरुदेशितामाचार्यपरम्परागतां ततः । भगतां वा परम्परया पश्चात् स्वकगुरुजनोपदिष्टाम् ॥ १०८ ॥
४] उज्जयिनीतो नीता यथेष्टकाः पुरा परम्परया । पुरुषः कौशाम्बीं यथागतेयं परम्परया ॥। १०८२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४९५।।
www.lainelibrary.org