________________
विशेषा
॥४९४॥
निरुपमसुखाः सिद्धाः, ज्ञाना-ऽनावाधाप्रकर्षादिति; उपपत्तिमात्रता चेह आविद्वदनादिलोकमतीतस्य साध्य-साधनधर्मानुगतस्य कस्यचिद् दृष्टान्तस्य दर्शयितुमशक्यत्वात् ; दृष्टाश्च प्रकृष्टज्ञानाः, राग-द्वेष-क्षुत-पिपासा-परपरिभवादिभिमनोबाधारहिताश्च साधवः परमसुखिनः; अतोऽतिप्रकर्षाप्तकेवलज्ञानरूपेण ज्ञानेन, सर्वथा निराबाधत्वेन च सह यद्यपि निरुपमसुखत्वस्येहाऽन्वयो न दृश्यते, तथापि गीतार्थप्रशान्तसाधुसुखित्वदर्शनमात्रेण निरुपमसुखसमृद्धिः सिद्धानां संभाव्यते, इतीहोपपत्तिमात्रतेति ।
अत्र च भाष्यकृता प्रथम हेतुाख्यातः, ततो दृष्टान्तः, प्रायेणेत्थमेव प्रयोगोपन्यासात् । नियुक्तिकृता तु प्रथम दृष्टान्तम् , ततो हेतुमुपन्यस्यतैतद् दर्शितं यदुत- अस्त्ययमपि न्यायो यत् कचिद्धतुमनभिधाय दृष्टान्त एवोपदयते, यथा- गतिपरिणतानां जीव-पुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवदिति । तथा, कापि हेतुरेव केवलोऽभिधीयते न दृष्टान्तः, यथा-मदीयोऽयमश्वः, पागस्मदृष्टविशिष्टचिह्नान्यथानुपपत्तेः । तथा चोक्तं नियुक्तिकारेण
'जिणवयणं सिद्धं चेव भण्णइ कत्थइ उदाहरणं । आसज्ज उ सोयारं हेऊ वि कहिं च भासेज्जा ॥ १ ॥' इति । 'एवमित्यादि एवमुक्तस्वरूपाणि हेतू-दाहरण-कारणार्थानि हेतू-दाहरण-कारणाभिधायकानि यानि पदानि तेषां निवहः संघातो यस्यां नियुक्तौ सा हेतू-दाहरण-कारणपदनिवहा तां वक्ष्य इति तात्पर्यम् । हेतू-दाहरणपदव्यत्यये तु कारणमभिहितमेव । अथवा, आहरणानि चहेतवश्चाहरण-हेतवस्तेषां कारणं वाचकत्वेन कारणभूतः पदनिवह एव यस्यां सा तथाभूता, तां वक्ष्य इति भावार्थ इति॥१०७७॥१०७८।।
अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह- इय सव्वसंगहाईए जेणमावासयं अहिगयं च । सामाइयं च तस्स वि तो पढमं तस्स वुच्छामि ॥१०७९॥
यस्मात् ' आवासयस्स दसकालियस्स' इत्यादिकस्याऽस्य संग्रहस्यादावावश्यकमुपन्यस्तम् , तथेदमेव च यतोऽत्राधिकृतम् । तस्यापि च यस्मात् सामायिकं प्रथमम् । ततस्तस्यैव प्रथममुपोद्धातनियुक्ति वक्ष्यामि ॥ इति गाथात्रयार्थः ।। १०७९ ।। एतदेवाह नियुक्तिकारः
जिनवचनासिद्धमेव भण्यते कुत्रचिदुदाहरणम् । आसाद्य तु श्रोतारं हेतुरपि कर भाष्येत ॥1॥ २ इति सर्वसंग्रहादी येनावश्यकमधिकृतं च । सामाविकं च तस्यापि ततः प्रथमं तस्य वक्ष्यामि ॥ १०७९ ॥ ३ गाथा १०७४ ।
॥४९४॥
For Pesona
P
e
Use Only