________________
विशेषा.
वृहत
॥४९३।।
कासासासासालासकटरमन-PATRA
कैप्पस्स य निज्जुत्तिं ववहारस्स य परमनिउणस्स । सूरियपण्णत्तीए वोच्छं इसिभासियाणं च ॥१०७५॥ एएसिं निज्जुत्तिं वोच्छामि अहं जिणोवएसेण । आहरण-हेउ-कारणपयनिवहमिणं समासेण ॥ १०७६ ॥
आवश्यकस्य, दशवैकालिकस्य, तथा, सूत्रस्य सूचकत्वादेकदेशेन समुदायावगतेश्चोत्तराध्ययना-ऽऽचारयोः, सूत्रकृतविषयां च नियुक्तिं वक्ष्ये । तथा, दशानां च कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य, तथा, सूर्यप्रज्ञप्तेर्वक्ष्ये । ऋषिभाषितानां च देवेन्द्रस्तवादीनाम् । एतेषां श्रुतविशेषाणामहं जिनोपदेशेनाहरण-हेतु-कारणपदनिवहामेतां नियुक्तिं समासेन वक्ष्यामि ॥ इति नियुक्तिगाथात्रयार्थः ॥ १०७४ ॥ १०७५ ॥ १०७६ ॥
अथाहरण-हेत्वादिस्वरूपं भाष्यकारो व्याख्यातुमाह
हेऊ अणुगम-वइरेगलक्खणो सज्झवत्थुपज्जाओ। आहरणं दिढतो कारणमुववत्तिमेत्तं तु ॥ १०७७॥
एवं पयाण निवहो हेऊ-दाहरण-कारणत्थाणं । अहवा फ्यनिवहो च्चिय कारणमाहरण-हेऊणं ॥ १०७८ ॥
'यत्र साधनं तत्र साध्यं भवत्येव' इत्येवंलक्षणः साध्यस्य साधनेन सहाऽन्वयोऽनुगमः, साध्याभावे साधनाभावरूपो व्यातेरेकः, अनुगमश्च व्यतिरेकश्च ती लक्षणं स्वरूपं यस्य स एवंभूतो हेतुः; यथा- अनित्यत्वादिविशिष्टे शब्दादौ साध्ये कृतकत्वादिः । कथंभूतोऽयम् ?, इत्याह- साध्यस्यानित्यत्वादिविशिष्टस्य शब्दादिवस्तुनः पर्यायः, अन्यस्य वैयधिकरण्यादिदोषदुष्टत्वेन साध्यसाधकत्वायोगादिति । यत् साधम्र्येण वैधर्येण वा साध्यसाधनायोपन्यस्यते तदाहरणमुदाहरणं दृष्टान्त इत्यर्थः । तत्र यो भोक्ता स कर्ता दृष्टः, यथा देवदत्तः, इति साधोदाहरणम् । यस्तु न कर्ता स भोक्तापि न भवति यथाऽऽकाशम् , इति वैधर्योदाहरणम् ।।
कारणं तु यद्यप्यन्यत्र हेतुरेवोच्यते तथापीह हेतोः साक्षात् पृथगेवोपादानात् कारणमुपपत्तिमात्रमेवावगन्तव्यम् । यथा
, कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपुणस्य । सूर्यप्रज्ञप्तर्वक्ष्य ऋषिभाषितानां च ॥ १०७५ ॥
एतेषां नियुक्ति वक्ष्येऽहं जिनोपदेशेन । आहरण-हेतु-कारणपदनिवहामिमा समासेन ॥ १०७६ ॥ २ हेतुरनुगम-क्यतिरेकलक्षणः साध्यवस्तुपर्याय: । आहरण दृष्टान्तः कारणमुपपत्तिमात्रं तु ॥ १०७७ ॥
एवं पदानां निवहो हेतू दाहण-कारणार्थानाम् । अथवा पदनिवह एव कारणमाहरण-हेतूनाम् ॥ 104॥
॥४९३॥
Jan Education Intera
For Personal and Private Use Only
www.jaineltrary.ary