________________
विशेषा०
बृहद्वात्तः ।
5
॥४९२॥
अर्थः किमुच्यते ?, इत्याह- श्रुतस्य विषयोऽभिधेयः । तस्माचार्थात् कथञ्चिद्भिन्नत्वात् मूत्रं पृथगुच्यते, प्राकृतत्वात् तदेव पृथक्त्वम् । इदं च सूत्रा-ऽर्थलक्षणमुभयं श्रुतज्ञानम् । 'तेसिं ति' तयोः सूत्राऽर्थयोः परस्परं 'निर्योजनम्- 'अस्य सूत्रस्याऽयमर्थः' इत्येवं | संबन्धनं नियुक्तिस्तां कीर्तयिष्यामि ॥ १०७१ ॥
अथवा, 'अत्थपुहत्तं' इत्यन्यथा व्याचष्टे
अत्थस्य व पिहुभावो पुहत्तमत्थस्स वित्थरत्तं ति। इह सुयस्स विसेसणं चिय अत्थपुहत्तं व से सण्णा ॥१०७२॥ अथवा, पृथु सामान्येन विस्तीर्णमुच्यते, तस्य भावः पुथुत्वम् , अर्थस्य पृथुत्वं पृथुभावः, किम् ?, इत्याह- अर्थस्य विस्तरत्वं जीवाद्यर्थविस्तर इति यावत् । एतचेह श्रुतविशेषणम्- श्रुतज्ञानस्य कथंभूतस्य ?, अर्थप्रतिपादकेनोपचारादर्थपृथुत्वस्यार्थविस्तररूपस्यत्यर्थः । अथवा, अर्थपृथक्त्वम् , अर्थपृथुत्वं चेति श्रुतज्ञानस्य संज्ञवेयम् । ततश्चार्थपृथक्त्वसंज्ञितस्य, अर्थपृथुत्वसंज्ञितस्य वा श्रुतज्ञानस्य | भगवतो नियुक्ति कीर्तयिष्यामीति ॥ १०७२ ।।
अथवा
अत्थाओ व पुहत्तं जस्स तओ वा पुहत्तओ जस्स । जं वा अत्थेण पिहुं अत्थपुहुत्तं ति तब्भावो ॥१०७३॥
अथवा, अर्थात् पृथक्त्वं कथश्चिद्भेदो यस्य तदर्थपृथक्त्वम् , स चाऽर्थः पृथक्त्वतः पार्थक्येन भेदेन वर्तते यस्य तदर्थपृथक्त्वम् , अर्थेन वा पृथु विस्तीर्णमर्थपृथु तद्भावोऽर्थपृथोर्भावोऽर्थपृथुत्वम् । अत्र पक्षे भावप्रत्ययान्तस्याप्यर्थपृथुत्वशब्दस्य प्राकृतत्वेन स्वार्थवाचकत्वात् श्रुतज्ञानेन सह सामानाधिकरण्यम् । ततश्च तस्याऽर्थपृथक्वस्य, अर्थपृथुत्वस्य वा श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामि ।। इति गाथाचतुष्टयार्थः॥१०७३ ॥
किं सर्वस्यापि श्रुतज्ञानस्य नियुक्तिर्वक्तव्या ?, नैवम् : किं तर्हि
आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे। सुयगडे निज्जुत्तिं वोच्छामि तहा दसाणं च ॥१०७४॥ १ क. ग. 'नियोज'। २ गाथा १०६९॥ ३ अर्थस्य वा पृथुभावः पृथुत्वमर्थस्य विस्तीर्णत्वमिति । इह श्रुतस्य विशेषणमेवाऽर्थपृथक्त्वं वा तस्य संज्ञा ॥ १०७२ ॥ ४ क.ग. 'त्तं ति से' । ५ अर्थाद् वा पृथक्त्वं यस्य सको वा पृथक्त्वतो यस्य । यद्वाऽधेन पृथु अर्थपृथुत्वमिति तद्भावः ॥ १०७३॥
६ आवश्यकस्य दशकालिकस्य तथोत्तराध्ययना-5ऽचारयोः । सूत्रकृते नियुक्ति वक्ष्ये तथा दशानां च ॥ १०७४ ॥
४९२॥
For Des
s ert